कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
Kathasaritsagara Part 2 (Lambaka 6–18)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 1030, कुल 1079 में से
संदर्भ में पढ़ें१७० कथासरित्सागर
विजयाख्यं महाक्षेत्रं कश्मीरेष्वस्ति शाम्भवम्।
तत्र प्रव्राजकः कश्चिदासीद्विद्याभिमानवान्॥५॥
जयी सर्वत्र भूयासमित्याशसन् प्रणम्य सः।
शम्भुं प्रतस्थे वादाद्यं प्रव्राट् पाटलिपुत्रकम्॥६॥
गच्छंश्च मार्गेऽतिक्रामन् वनानि सरितो गिरीन्।
प्राप्याटवीं परिश्रान्तो विशश्राम तरोस्तले॥७॥
क्षणाच्च वापीशिशिरे तत्र दूराच्चधूसरम्।
ददर्श धार्मिकं दण्डकुण्डिकाहस्तमागतम्॥८॥
कुतस्त्वं कुत्र यासीति निष्प्रमोऽत्र च तेन सः।
प्रव्राजकेन पृष्टस्तमित्यभाषत धार्मिकः॥९॥
आगतोऽहं सखे विद्याक्षेत्रात् पाटलिपुत्रकात्।
काश्मीरान् यामि तत्रत्यां जेतुं वादेन पण्डितान्॥१०॥
श्रुत्वैतद्धार्मिकवचः स परिव्राडचिन्तयत्।
इहैको न जितोऽद्य चेन्मया पाटलिपुत्रकः॥११॥
तत्तत्र गत्वा जेप्यामि कथमयान् बहूनहम्।
इत्यालोच्य स तं प्रव्राडाक्षिप्याह स्म धार्मिकम्॥१२॥
विपरीतमिदं किं ते वद धार्मिक चेष्टितम्।
क्व धार्मिको मुमुक्षुस्त्वं क्व वादी व्यसनातुरः॥१३॥
वादाभिमानबन्धेन संसारा मोक्षमिच्छसि।
शमयस्यग्निनोष्माणं शीते हृदि हिमेन च॥१४॥
उत्तितीर्षसि पाषाणनावा मूढ महोदधिम्।
वातेन ज्वलितं वह्निं निवारयितुमीहसे॥१५॥
ब्राह्मं शीलं क्षमा नाम क्षात्रमापन्नरक्षणम्।
मुमुक्षुशीलं च शमः कारुष्टो रक्षसां स्मृतम्॥१६॥
तस्माच्छान्तेन दान्तेन भवितव्यं मुमुक्षुणा।
निरस्सङ्गद्वन्द्वेन संसारक्लेशभीरुणा॥१७॥
अतः शमकुठारेण छिन्द्धीमं भवपादपम्।
हेतुवादाभिमानाम्बुसिक्तस्त्वस्य तु मा स्म वा॥१८॥
इत्युक्तो धार्मिकस्तेन परितुष्टः प्रणम्य तम्।
गुर्वर्थमात्मनेत्युक्त्वा जगाम स यथागतम्॥१९॥