कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 103, कुल 1079 में से
संदर्भ में पढ़ें८२ कथासरित्सागर
सोऽपि तद्रूपलावण्यविनीताहृतचेतनः।
तामभ्यनन्ददारामान्नप्रकाश्यैव भूपतिः॥३०॥
ततो मदनमाला सा स्नानपुष्पानुलेपनैः।
वस्त्रैराभरणैर्धूपैर्महार्हैरसममानयत् ॥३१॥
दत्त्वा दिवसवृत्तिं च तेषां तदनुयायिनाम्।
आहारैस्तं ससचिवं नानारूपैरपाययत्॥३२॥
निनाय च समं तेन दिनं पानादिलीलया।
आत्मानं भावयतस्तं सा दर्शनावशीकृता॥३३॥
रात्रौ चाराध्यमानोऽप्यच्छन्नोऽप्यहरहस्तया।
स तस्यै विक्रमादित्यश्छत्रवत्युचितं क्रमम् ॥३४॥
याचकेभ्यो ददौ नित्यं वित्तं यावच्च यच्च सः।
दृष्ट्वा मदनमाला सा तत्तस्मै स्वमुपानयत्॥३५॥
क्षनोपभुज्यमानं च सा शरीरं धनं सथा।
मेन कृतार्थमम्यस्मिन्नुत्पर्ये च पराङ्मुखी॥३६॥
ततश्चण्डा ऽपि तत्रत्यमनुरक्तं नराधिपम्।
आयान्तं नरसिंहं तं वारयामास युक्तिभिः॥३७॥
एवं तया सेव्यमानः कदाचिन्मन्त्रिणं रहः।
राजा सहचरं सोऽत्र तं बुद्धिवरमभ्यधात्॥३८॥
अर्थार्थिनी न कामऽपि वेश्या रज्यति तं विना।
तामां लोभो हि विधिना वत्सो निर्माय याचकान् ॥३९॥
इयं मदनमाला तु भुज्यमाने धने मया।
न विरज्यत्यतिस्नेहान्मयि प्रत्युत तुष्यति॥४०॥
तदस्याः संप्रति कश्च करोमि प्रत्युपक्रियाम्।
येन कामं प्रतिज्ञापि क्ष्मणं मम सत्स्यति॥४१॥
तच्छ्रुत्वा स ब्रवीति स्म मन्त्री बुद्धिवरो नृपम्।
यद्येवं तद्भवार्णे यानि रत्नान्युपाहरत्॥४२॥
प्रपञ्चबुद्धिमिदंस्त स्तेभ्योऽर्घ्यं देहि वाञ्छितम्।
इत्युक्तो मन्त्रिणा तेन राजा तं प्रत्यभाषत॥४३॥
दत्तं ममपरेरपि सैनांन्या किञ्चित्कृतं भवेत्।
एतद्दान्तान्मदिमण्डं हि स्वमन्यत्र निष्कृतिः॥४४॥