कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
Kathasaritsagara Part 2 (Lambaka 6–18)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 1010, कुल 1079 में से
संदर्भ में पढ़ें१५४ कथासरित्सागर
क्व च भर्त्तेति पप्रच्छ स च तां तस्य गेहिनीम्।
साप्यदत्तोत्तरा तस्य प्राविशद्भर्तुरन्तिकम् ॥१४५॥
आख्यातमित्रागमना सोऽपि भार्यां जगाद ताम्।
उपविश्येह रुदती पादावाशय तिष्ठ मे ॥१४६॥
भर्त्ता मे मृत इत्येव वदस्व सुहृदं मम।
ततो गतेऽस्मिन्प्रावाभ्यां भोक्तव्या क्षीरिणी सुखम् ॥१४७॥
इत्युक्ता तेन यावत्सा प्रवृत्ता रवितुं तदा।
तावत् प्रविश्य सोऽपृच्छत्किमेतदिति तां सुहृत् ॥१४८॥
भर्त्ता मृतो मे पश्येति तयोक्तः स व्यचिन्तयत्।
क्व पचन्ती मया दृष्टा सुखिता क्षीरिणीमियम् ॥१४९॥
क्वाधुनेष विपन्नोऽप्रमत्तवन्मर्त्ता विना रुजम्
नूनं मां प्राघुणं दृष्ट्वा कृतमाभ्यामिदं मृषा ॥१५०॥
तन्मया नैव गन्तव्यमित्यासोऽप्युपविश्य सः।
धूर्त्तो हा मित्र हा मित्रेत्याक्रन्दस्तत्र तस्थिवान् ॥१५१॥
श्रुताक्रन्दा प्रविश्याथ बान्धवा मृतवत्स्थितम्।
श्मशानं भीतटक्कं च नेतुमासन् समुद्यताः ॥१५२॥
उत्तिष्ठ बान्धवैर्यावन्नीत्वा न दह्यसे।
इत्युपादवदत् कर्णमूले भार्या तदा च तम् ॥१५३॥
मव शठोऽस्य टक्को मे क्षीरिणीं भोक्तुमिच्छति ॥
मोत्तिष्ठामि तवेवस्मिन्गतेऽहृ मृतो यदि ॥१५४॥
प्राणेभ्योऽप्यन्नमुष्टिर्हि मादृशानां गरीयसी।
इति प्रत्यब्रवीद् भार्यामुपांश्वेव स तां जडः ॥१५५॥
ततस्तेन कुमित्रेण नीत्वा तैः स्वजनैश्च सः।
दह्यमानोऽपि निश्चेष्टो ददौ नामेरणाद्रवम् ॥१५६॥
एव स मूढो विजहौ प्राणान् क्षीरिणीं पुनः।
रुषाजितं च बुभुज तस्यान्यैहंस्या धनम् ॥१५७॥
मार्जारमूर्खस्य कथा
धृत कदर्ये श्रूयन्ताममी मार्जारभौतकाः।
उज्जयिन्यामुपाध्यायो मुग्धः कोऽप्यभवन् मठे ॥१५८॥
सत्र निद्रा न तस्याभून्मूपकोपत्रवाग्निधि।
तत्खिन्नस्तच्च सुहृदे स कस्मैचिद्वयवर्ययत् ॥१५९॥