सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 1006, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 1006

९५ कथासरित्सागर

राजापि बोधिसत्त्वं तं दर्शितं कुस्त्रिया तया ।
आनावयत् साभरणं भृत्यैर्बन्धेवा गृहातस्त ॥११६॥
परिपृच्छंश्च च वृत्तान्तं सत्यं मत्वापि तद्वचः ।
स्थापयामास बद्धं तं गृहीत्वाभरणान्यपि ॥११७॥
स बन्धस्थोऽथ सस्मार बोधिसत्त्वो भुजङ्गमम् ।
ऋषिपुत्रावतारं तमृपतस्थे च सोऽपि तम् ॥११८॥
दृष्ट्वा च तं स पृष्टार्थः सर्पः साधुमभाषत ।
गत्वाऽहं वेष्टयाम्येतमामूर्धान्तं महीपतिम् ॥११९॥
न च मुञ्चाम्यमुं यावदागत्योक्तोऽस्मि न त्वया ।
मोक्ष्याम्यहं नृपं सर्पादिति स्वं च वदेरिह ॥१२०॥
त्वय्यागते त्वद्वचसा मोक्ष्याम्यहमतो नृपम् ।
मन्मुक्तश्चथ राजा ते स्वराज्यर्धं प्रदास्यति ॥१२१॥
इत्युक्त्वा तं स गत्वैव परिवेष्टितवानहिः ।
राजानमास्त चैतस्य मूर्ध्नि कृत्वा फणत्रयम् ॥१२२॥
हा हा दष्टोऽहिना राजेत्याक्रन्दति जनेऽथ सः ।
बोधिसत्त्वोऽब्रवीद्रक्षाम्यहं नृपमहैरिति ॥१२३॥
श्रुतवद्भिश्च तद्वाक्यं विज्ञप्तः सोऽनुजीविभिः ।
आनाय्य बोधिसत्त्वं तं सर्पाक्रान्तोऽब्रवीन्नृपः ॥१२४॥
यदि मां मोषयस्यस्मात् सर्पात् तत्ते ददाम्यहम् ।
राज्यार्धमन्तरस्थाश्च धवैते मन्त्रिणोऽत्र मे ॥१२५॥
तच्छ्रुत्वा बाढमित्युक्ते मन्त्रिभिः स जगाद तम् ।
भुजङ्ग बोधिसत्त्वांशो मुञ्च राजानमाश्र्विति ॥१२६॥
ततस्तेनाहिना मुक्तो राज्यार्धं नृपतिर्ददौ ।
स तस्मै बोधिसत्त्वाय सोऽपि स्वस्थोऽभवत् क्षणात् ॥१२७॥
सर्पेश्च क्षीणशापः सन् भूत्वा मुनिकुमारकः ।
सदस्याख्यातवृत्तान्तो जगाम निजमाश्रमम् ॥१२८॥
एष निश्चितमन्वेति शुभमेव शुभार्समम् ।
एव नातिक्रमो नाम क्लेशाय महतामपि ॥१२९॥
अविश्वासास्पदं चैव स्त्रीणां स्पृशति नाश्चर्यम् ।
प्राणदानोपकारोऽपि किं चासामन्यदुच्यते ॥१३०॥