सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 99, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 99

६४ कथासरित्सागरे
वाचमित्या च तं लब्धमेकान्ते शिववर्मणः ।
शशंस बधनिर्देशं भोगवर्मा विधेयताम् ॥६९॥
शिववर्माऽप्यवोचत्तं सामन्तं मन्त्रिसत्तमः ।
स्वं व्यापार्य मां नो षश्छिन्द्यादात्मानमात्मना ॥७०॥
सच्छ्रुत्वा विस्मयाविष्टो भोगवर्मा जगाद तम् ।
किमेतद् ब्रूहि मे विप्र ! शापितोऽसि न वक्षि चेत् ॥७१॥
अथ बक्ति स्म तं मन्त्री हृष्यन् यत्र भूपतेः ।
तत्र द्वादश वर्षाणि देशे दद्यो न वर्षति ॥७२॥
तच्छ्रुत्वा मन्त्रिणि श्लाघे भोगवर्मा व्यचिन्तयत् ।
दुष्टः स राजा देशस्य नाशमस्माकमिच्छति ॥७३॥
किं हि तत्र न सन्त्येव वधका गुप्तगामिनः ।
तस्मान्मन्त्री म वध्योऽसौ रक्ष्यः स्वात्मबवादपि ॥७४॥
इति सम्भ्रथ दत्वा च रक्षका भोगवर्मणा ।
शिववर्मा ततो देशात्प्रोषितोऽभूत्ततः क्षणात् ॥७५॥
एवं प्रत्याययो जीवन्स मन्त्री प्रज्ञया स्वया ।
शुद्धिश्वास्यान्द्यतो जाता नहि धर्मोऽन्यथा भवेत् ॥७६॥
इत्थं तवापि शुद्धिः स्यात्तिष्ठ तावद् गृहे मम ।
कार्यायन नृपोऽप्यद्य सानुतापो भविष्यति ॥७७॥
इत्युक्तः शकटालम् अच्छोऽहं तस्य वेश्मनि ।
प्रतीक्षमाणोऽवसरं तान्यहान्यत्यवाहयम् ॥७८॥
तस्याथ योगनन्दस्य कालभूते ! कदाचन ।
पुत्रो हिरण्यगुप्ताख्यो मृगयाय गतोऽभवत् ॥७९॥
अश्ववेगात्प्रमातस्य क्यञ्चिद्दूरमन्तरम् ।
एकाकिनो वनं तस्य वासरः पर्यहीयत ॥८०॥
ततश्च तां निशां गतुं वृक्षमारेहति स्म सः ।
क्षणात्तत्र चारोहदृक्षं सिंहम् भीपितः ॥८१॥
स दृष्ट्वा राजपुत्रं तं भीतं मानुषभाषया ।
मा भैषीर्मम मित्रं त्वमित्युक्त्वा निर्भय व्यधात् ॥८२॥
विस्रम्भाद्वशवाश्यं राजपुत्रोऽथ सुप्तवान् ।
ऋक्षस्तु जाग्रदेवाशीदथ सिंहोऽथ सोऽब्रवीत् ॥८३