कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 95, कुल 876 में से
संदर्भ में पढ़ें९० कथासरित्सागर
यथाज्ञापयसीत्युक्त्वा शकटालोऽगमद् बहिः।
अचिन्तयच्च शक्तिः स्याद्धन्तुं वररुचिं न मे ॥३९॥
दिव्यबुद्धिप्रभावोऽसावुद्धर्त्ता च ममापदः।
विप्रदोषं तद्वरं गुप्तं सम्प्रति स्वीकरोमि तम् ॥४०॥
इति निश्चित्य सोऽभ्येत्य राज्ञः कोपमकारणम्।
वृत्तान्तं कथयित्वा मे शकटालोऽब्रवीत्ततः ॥४१॥
अथ कञ्चित्प्रवादाय हर्म्यह त्वं च मद्गृहे।
प्रच्छन्नस्तिष्ठ मामस्माद्रक्षितुं कोपनान्नृपात् ॥४२॥
इति तद्वचनाच्छन्नस्तद्गृहैकस्थितोऽभवम्।
स चान्यं हत्वा कञ्चिन्मद्वधवार्त्तामये निशि ॥४३॥
एवं प्रयुक्तनीतिं च प्रीत्याऽप्रोचमहं तदा।
एको मन्त्री भवान्येन हन्तुं मां न कृता मतिः ॥४४॥
नहि हन्तुमहं शक्यो राक्षसो मित्रमस्ति मे।
ध्यातमात्रागतो विश्वं ग्रसते स मदिच्छया ॥४५॥
राजा त्विहेन्द्रदत्ताख्यः सखा वध्यो न मे द्विजः।
तच्छ्रुत्वा सोऽब्रवीन्मन्त्री रक्षो मे दर्शयतामिति ॥४६॥
ततो ध्यानागतं तस्मै तद्रक्षोऽहमदर्शयम्।
तद्दर्शनाच्च वित्रस्तो विस्मितश्च बभूव सः ॥४७॥
रक्षस्यन्तर्हिते तस्मिन् शकटालः स मां पुनः।
कथं ते राक्षसो मित्रं सञ्जात इति पृष्टवान् ॥४८॥
ततोऽहमब्रुवं पूर्वं रक्षार्थं नगरं भ्रमन्।
रात्रौ रात्रौ मया प्राप्तदेकैकको नगराधिपः ॥४९॥
तच्छ्रुत्वा योगनन्दो मामकरोन्नगराधिपम्।
भ्रमंश्चापश्यमत्राहं भ्रमन्तं राक्षसं निशि ॥५०॥
स च मामवदद् ब्रूहि विख्याते नगरेऽत्र का।
सुरूपा स्त्रीति तच्छ्रुत्वा विहस्याहं तमब्रुवम् ॥५१॥
या यस्याभिमता मूर्ख¹ सुरूपा तस्य सा भवेत्।
तच्छ्रुत्वा स्वयमेवैनं जितोऽस्मीत्यवदत्स माम् ॥५२॥
प्रश्नमोक्षाद् वधोत्तीर्णं मां पुनश्चाब्रवीदसौ।
तुष्टोऽस्मीति सुहृन्मे त्वं सन्निधास्ये च ते स्मृतः ॥५३॥