सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 93, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 93

५८ कथासरित्सागर
सर्वत्रान्तः पुरे ह्यत्र स्त्रीरूपाः पुरुषाः स्थिताः ।
हन्यन्तेऽनपराधस्तु विप्र इत्यहसत्त्विति ॥२४॥
भूतानां पार्थिवात्यर्थनिर्विषक्तत्वहासिनाम् ।
सर्वान्तश्चारिणां ह्येता भवन्त्येव च विक्रियाः ॥२५॥
एतत्तस्या वचः श्रुत्वा ततोऽप्रक्रान्तवाहनम् ।
प्रातश्च मत्स्यहासस्य हेतुं राज्ञे न्यवेदयम् ॥२६॥
प्राप्य चान्तःपुरेभ्यस्तान्स्त्रीरूपान्पुरुषांस्ततः ।
बहुमन्यत मां राजा वधाद् विप्रं च मुक्तवान् ॥२७॥
इत्यादि चेष्टितं दृष्ट्वा तस्य राज्ञो विश्रब्धहृदयम् ।
श्लिष्टे मयि कदाचिच्च तत्रागाच्चित्रकृन्नरः ॥२८॥
अलिखत्स महादेवीं योगनन्दं च तं पटे ।
सजीवमिव सञ्चित्रं वाक्चेष्टारहितं त्वभूत् ॥२९॥
तं च चित्रकरं राजा तुष्टो वित्तैरपूरयत् ।
तं च वासगृहे चित्रपटं भित्तावकारयत् ॥३०॥
एकदा च प्रविष्टस्य वासके तत्र सा मम ।
सम्पूर्णलक्षणा सर्व्वी प्रतिभाति स्म चित्रगा ॥३१॥
लक्षणान्तरसम्बन्धादभ्यूह्य प्रतिभानतः ।
अथाकारयमंह तस्यास्तिलकं मेखलापदे ॥३२॥
सम्पूर्णलक्षणां तेन कृत्स्नां गतवानहम् ।
प्रविष्टो योगनन्दोऽथ तिलकं तं व्यलोकयत् ॥३३॥
केनाप्य रचितोऽत्रेति सोऽपृच्छच्च महत्तरान् ।
ते च न्यवेदयस्तस्मै कर्त्तारं तिलकस्य माम् ॥३४॥
देव्या गुप्तप्रवेशस्थमियं नान्यो मया विना ।
वेत्ति तज्ज्ञातवानेवमसौ वररुचिः कथम् ॥३५॥
सन्निहितोऽधुना नूनं ममान्तःपुरविप्लवः ।
दृष्टवागतएवायम् स्त्रीरूपांस्तत्र तान्नरान् ॥३६॥
इति सन्दिग्धयामास योगनन्दः क्रुधा ज्वलन् ।
जायन्ते बत मूढानां यत्नादा अपि तादृशाः ॥३७॥
ततः स्वैरं समाहूय शकटालं समादिशत् ।
त्वया वररुचिर्बध्यो देवीविप्रलम्भनादिति ॥३८॥