सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 89, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 89

४ कथासरित्सागर
व्याधिस्ततोऽवदद्राजञ्शरीरे क्षणनश्वरे ।
एवंप्रायेष्वसारेषु धीमान्को नाम मज्जति ॥१३३॥
नहि मोहयति प्राज्ञं लक्ष्मीरूमरुमरीचिका ।
इत्युक्त्वैव स तत्कालं तपसे निर्जगतो ययौ ॥१३४॥
अगमच्च योगनन्दं पाटलिपुत्रं स्वराजनगरं सः ।
भोगाय चाणमूर्ते ! मत्सहितः सकलसैन्ययुतः ॥१३५॥
तत्रोपक्रोधापरिचर्यमाणः समुद्वहन्मन्त्रिधुरं च तस्य ।
अहं जनन्या गुरुभिश्च साकमासाद्य लक्ष्मीमवसं चिराय ॥१३६॥
बहु तत्र दिने दिने द्विजेभ्यः कनकं मह्यमदात्प्रसन्ना ।
वव्राति स्म शरीरिणी च साक्षान्मम कार्याणि सरस्वती सदैव ॥१३७॥
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे कथापीठलम्बके
चतुर्थस्तरङ्गः ।

पञ्चमस्तरङ्गः
एवमुक्त्वा वररुचिः पुनरेतदवर्णयत् ।
कालेन यागमन्दोऽयं कामादिवसमामयौ ॥१॥
गजेन्द्र इव मत्तश्च नापेक्षत स किञ्चन ।
अकाण्डपातोपनता न न लक्ष्मीर्विमोहयेत् ॥२॥
अचिन्तयं ततश्चाहं राजा तावद् विमूर्च्छकः ।
तत्कार्यचिन्तयाक्रान्तः स्वधर्माद् मेऽप्रसीदति ॥३॥
तस्माद् वरं सहायं तं शकटालं समुद्धरे ।
श्रियेत चेद् विरुद्धं च किं स कुर्यान्मयि स्थिते ॥४॥
निश्चित्यैतन्मयाभ्यर्थ्य राजानं सोऽन्धकूपतः ।
उद्धृतः शकटालोऽथ मुमुदे हि विजातये ॥५॥
दुर्जयो योगनन्दोऽस्य स्थिते वररुचावतः ।
आश्रये वैतसीं वृत्तिं काले तावत्प्रतीक्षितुम् ॥६॥
इति सञ्चिन्त्य स प्राज्ञः शकटालो मदिच्छया ।
अकरोद्राजकार्याणि पुनः सम्प्राप्य मन्त्रिताम् ॥७॥
कदाचिद्योगनन्दोऽथ निर्गतो नगराद् बहिः ।
क्षिपन्त्यल्पञ्चाङ्गुलिं हस्तं गङ्गामध्ये व्यलोकयत् ॥८॥