कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 871, कुल 876 में से
संदर्भ में पढ़ें८१२ कथासरित्सागर
यदि युगपदिहेन्दुमूर्तिमान् कनकगिरिं भ्रमतोऽभितः कदाचित् ।
भवति तदुपमा तयोस्तदानीं जगति वधूवरयोः प्रदक्षिणेऽग्नेः ॥२५६॥
यथा विवाहोत्सवतूल्यनादा
नपोधमन्दन्दुभयोऽन्तरिक्ष ।
तथा वधूत्सारितहोमलाजाः
सुरोज्झिताः कौसुमवृष्टयोऽत्र ॥२५७॥
सत कनकराशिभिर्मणिमयैश्च जामातर
समर्धयदुदारधीः किल शशिकूसेना तया।
यथात्र बुबुधे जनैरपि सुदुर्गंतोऽस्या पुरः
स काममलकापतिः कृपणभूभृताऽन्ये तु के ॥२५८॥
निष्पन्नावृद्यचिराभिमतस्यानुरूप—
पाणिग्रहोत्सवविधौ च वधूवरौ तौ।
अभ्यन्तरं विविशतुः प्रमदोपरुद्धं
लोकस्य मानसमिवामलचित्रमक्ति ॥२५९॥
सङ्वाहिनीपरिगतैरपि विश्ववन्द्य
शौर्याधितैरपि जितावनतैर्नरेन्द्रैः।
सा वारिराशिभिरिवाशु पुरी पुपूरे
वत्सेश्वरस्य सवुपायनरत्नहस्तैः ॥२६ ॥
अनुजीबिजनाय सोऽपि राजा व्यकिरद्धेम तथा महोत्सवेऽस्मिन् ।
यदि परमभवन्न जातरूपा जननीगर्भंगता यथास्य राष्ट्रे ॥२६१॥
वरचारणनर्तकीसमूहैर्विविधदिगन्तसमागतैस्तदात्र।
परितः स्तवनृत्तगीतवाद्यैर्बुबुधे तन्मय एव जीवलोकः ॥२६२॥
वातोद्धूतपताकाबाहुलसा नोरुखेऽत्र कौशाम्बी।
सापि ननर्तेव पुरी पौरस्त्रीरचितमण्डनाभरणा ॥२६३॥