सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 859, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 859

८० कथारित्सागर
अहो धात्रा पुरः सृष्टं साहसं तदनु स्त्रियः ।
नैतासां दुष्करं किञ्चिन्निसर्गादिह विद्यते ॥१७७॥
नूनं स्त्री नाम सृष्टेयममृतेन विषेण च ।
अनुरक्तामृतं सा हि विरक्ता विषमेव च ॥१७८॥
ज्ञायते कान्तवदना केन प्रच्छन्नपातका ।
कुस्त्री प्रफुल्लकमला गूढनक्रा पद्मिनी ॥१७९॥
दिवः पतति काचित्तु गुणचक्रप्रमोदिनी ।
भर्तृश्लाघासहा सुस्त्री प्रभा भानोरिवामला ॥१८०॥
हन्त्येवाशु गृहीतान्या पररक्ता गतस्पृहा ।
पापा विरागविषमूढं भर्तरि भुजगीव सा ॥१८१॥
शत्रुघ्नस्य दुष्टभार्यास्तत्फलप्राप्तश्च कथा
यथा हि कुत्रचिद् ग्रामे शत्रुघ्न इति कोऽप्यभूत् ।
पुरुषस्तस्य भार्या च बभूव व्यभिचारिणी ॥१८२॥
स ददर्श कदा सायं भार्या तां जारसङ्गताम् ।
जघान तं च तज्जारं खड्गेनान्तर्गृहस्थितम् ॥१८३॥
रात्र्यपेक्षो च तस्थौ स द्वारि भार्या निरुध्य ताम् ।
तत्कालं च निवासार्थी तमत्र पथिकोऽभ्यगात् ॥१८४॥
दत्त्वा तस्याश्रयं युक्त्या तेनैव सह तं मृतम् ।
पारदारिकमादाय रात्री तत्राटवीं ययौ ॥१८५॥
तत्रान्धकूपे यावत्स शवं क्षिपति तं तया ।
तावदागत्य पश्चात्क्षिप्तः सोऽप्यत्र भार्यया ॥१८६॥
एवं कुयोषित्कुरुते किं किं नाम न साहसम् ।
इति स्त्रीचरितं वाणोप्यनिन्दत्सोऽत्र गोमुखः ॥१८७॥
ततो नागावने तत्र नागानभ्यर्च्य स स्वयम् ।
नरवाहनदत्तोऽगात् स्वावासं सपरिच्छदः ॥१८८॥
राजनीतिवादः
तत्र जिज्ञासुरम्येषु मन्त्रिणान् गोमुखादिकान् ।
जानन्नपि स पप्रच्छ राजनीति समुच्चयम् ॥१८९॥
१ अत्र समुपवर्णिता राजनीतिः कामन्दकशुक्रमनुचाणक्यवादिमतानुसारिणी
प्रतीयते ।