सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 843, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 843

०८४ कथासरित्सागर
इति राज्ञोदिते प्राह मन्त्री यौगन्धरायणः ।
श्रूयते देव यत्त्वत्रे रतिर्दग्धे स्मरे पुरा ॥५९॥
मर्त्यलोकावतीर्णेन सशरीरेण सङ्गमः ।
मर्त्यभावगतायास्ते स्वेन भर्त्रा भविष्यति ॥६०॥
इति शापाद् वरं शर्वो रत्यै स्वपतिमीप्सवे ।
कामावतारश्चोक्तः प्राग्विद्युन्माचा सुतस्तव ॥६१॥
रत्यावतरणीयं च मर्त्यभावे सुराङ्गना ।
गर्भग्राहिकया चाद्य ममैव वर्णितं रहः ॥६२॥
मया कलिङ्गसेनाया गर्भे प्राग्गर्भसम्पदा ।
युक्तो दृष्टस्तदैवाम्यन्तरूयं तद्विवर्जितम् ॥६३॥
तदाश्चर्यं विलोक्याहं तवाख्यातुमिहागता ।
इति स्त्रिया यथोक्तं मे जातैषा प्रतिभाति ते ॥६४॥
तज्जाने मायया देव्याः सैषा रतिरयोनिजा ।
कलिङ्गसेनातनया गर्भवीर्येण निर्मिता ॥६५॥
भार्या कामावतारस्य पुत्रस्य तव भूपते ।
तथा चात्र कथामेतां यदासम्बन्धिनीं शृणु ॥६६॥
भृत्यो वैश्रवणस्याभूद्विरूपाक्ष इति श्रुतः ।
यक्षो निधानरक्षाणां प्रधानाध्यक्षतां गतः ॥६७॥
मथुरायां बहिसंस्थं निधानं स च रक्षितुम् ।
यक्षं नियुक्तवानेकं शिलास्तम्भमिवापरम् ॥६८॥
तत्र छत्रग्रहीवासी कश्चित्पाशुपतो द्विजः ।
निधानान्वेषणोपायात् गन्त्यवादी कणाशनः ॥६९॥
स मानुषवसादीपहस्तो यावत्परभ्रमात् ।
स्थानं तावत्तस्यात्र कराद्दीपः पपात सः ॥७०॥
रुदाशेन च तेनात्र स्थितं निधिमवेत्य सः ।
उद्घाटयितुमारेभे महाम्यैः गणिभिर्द्विजैः ॥७१॥
अथ योऽसौ नियुक्तोऽभूद्यक्षो रक्षाविधौ स तत् ।
दृष्ट्वा गत्वा यथावस्तु विरूपाक्षं व्यजिज्ञपत् ॥७२॥
गच्छ व्यापाद्य क्षिप्रं धूर्तान्तान्मययाविदः ।
इत्यादिदेश तं यक्षं विरूपाक्षः स शासनः ॥७३॥