सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 835, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 835

४७६ कथासरित्सागर

अष्टमस्तरङ्गः

वत्सराजस्य कथा (पूर्वानुवृत्ता)

ततः कलिङ्गसेनायाः स्मरन्ननुपमं वपुः।
एकदा मन्मथाविष्टो निशि वत्सेश्वरोऽभवत् ॥१॥
उत्थाय सङ्गहृस्तः सन् गत्वैव प्रविवेश सः।
एकाकी मन्दिरं तस्याः कृताखिम्ब्यादरस्तया ॥२॥
तत्र प्रार्थयमानस्तां भार्यार्थे स महीपतिः।
परपत्न्यहमस्मीति प्रत्याख्यातस्तयाब्रवीत् ॥३॥
तृतीयं पुरुषं प्राप्ता यतस्त्वमसि बन्धकी।
परवारगतो दोषो न मे त्वद्गमने ततः ॥४॥
एव कलिङ्गसेना सा राज्ञोक्ता प्रत्युवाच तम्।
स्वधर्ममागता राजन्नहं विद्याधरेण हि ॥५॥
व्यूढा मदनवेगेन स्वैरं त्वद्रूपधारिणा।
स एवैकश्च भर्ता मे तत्कस्मादस्मि बन्धकी ॥६॥
किं वातिलङ्घन्तबन्धूनां स्वेच्छाजातधृतात्मनाम्।
इमास्ता विपदः स्त्रीणां कुमारीणां कथैव का ॥७॥
दृष्टाशकुनया सख्या निषिद्धापि व्यसर्जंयम्।
त्वत्पार्श्वे यदहं दूतं तस्य खेदः फलं मम ॥८॥
तत्स्पृशसि बलान्मां चेत् प्राणांस्त्यक्ष्याम्यहं ततः।
का नाम कुलजा हि स्त्री भर्तृद्रोहं करिष्यति ॥९॥

पतिव्रताया वेश्यपरम्पा कथा

तथा च कथयाम्यत्र तव राजन्कथां शृणु।
पुराभूदिन्द्रदत्ताख्यश्चेतिविद्देशमहीपतिः ॥१०॥
स पापशोधने तीर्थे कीर्त्यै देवकुलं महत्।
चक्रे यशशरीरार्थी शरीरं वीक्ष्य भङ्गुरम् ॥११॥
तच्च मन्दिरमाच्छश्वद् वीक्षितुं स ययौ नृपः।
सर्वेश्च तीर्थस्नानाय सङ्ग तत्राभवज्जनः ॥१२॥
एकदा च ददर्शात तीर्थस्नानार्थमागताम्।
स राजात्र वणिग्भार्या प्रभासस्थितभर्तृकाम् ॥१३॥