सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 833, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 833

७०४ कथासरित्सागर
ततः समन्त्रिके राज्ञि गते सात्र विवेशगा ।
मृगीव यूथविभ्रष्टा परित्यक्तस्वबान्धवा ॥२०७॥
सम्भोगविस्त्रस्तपत्रमुक्ता वा गजपीडिता ।
पद्मिनीव परिक्षिप्तकवरीभ्रमरावलिः ॥२०८॥
विनष्टकन्यकाभावा निरुपायक्रमा सती ।
कलिङ्गसेना गगनं वीक्षमाणेदमब्रवीत् ॥२०९॥
वत्सेशरूपिणा येन परिणीतास्मि केनचित् ।
प्रकाशं सोऽस्तु कौमारः स एव हि पतिर्मम ॥२१०॥
एवं तयोक्ते गगनात्सोऽत्र विद्याधराधिपः ।
अवतारदिव्यरूपो हारकेयूरराजितः ॥२११॥
को भवानिति पृष्टश्च तयैवं स जगाद ताम् ।
अह मदनवेगाख्यस्तन्वि विद्याधराधिपः ॥२१२॥
मया च प्राग्विलोक्य त्वां पुरा पितृगृहे स्थिताम् ।
त्वत्प्राप्तिदस्तपं कृत्वा वरः प्राप्तो महेश्वरात् ॥२१३॥
वत्सेश्वरानुरक्ता च तद्रूपेण मया द्रुतम् ।
प्रवृत्तद्विवाहैव परिणीतासि युक्तितः ॥२१४॥
इति वाक्सुधया तस्य श्रुतिमार्गप्रविष्टया ।
किञ्चित्कलिङ्गसेनाभूदुच्छ्वासितहृदम्बुजा ॥२१५॥
अथ स मदनवेगस्तां समाश्वास्य कान्तां
विहितधृतिवितीर्णस्वर्णराशिं च तस्मै ।
उषित इति तथान्तर्वेश्मसद्मसु भक्तितः
पुनरुपगमनाय द्यां तदैवोत्पपात ॥२१६॥
दिव्याम्प्य स्वपतिमथ न मरणगम्यं
धामात्पितृभवनमुज्झितमित्यवेक्ष्य ।
तत्रैव वस्तुमथ सापि कलिङ्गसेना
चक्रे मतिं मदनवेगकृताभ्यनुज्ञा ॥२१७॥
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे
मदनमञ्चुकालम्बके सप्तमस्तरङ्गः ।