सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 831, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 831

ततो निशीथे संसुप्ते जने वत्सेश्वरो ययौ।
गृहं कलिङ्गसेनायाः स च यौगन्धरायणः ॥१९३॥
अदृष्टश्च प्रविष्टोऽत्र तस्या निद्राजुषोऽन्तिके।
सुप्तं मदनवेगं तं स्वरूपस्थं ददर्श सः ॥१९४॥
हन्तुमिच्छति यावच्च स स साहसिको नृपः।
तावत्स विद्यया विद्याधरोऽभूत्प्रतिबोधितः ॥१९५॥
प्रबुद्धश्च स निर्गत्य झगित्युदपतन्नभः।
क्षणात्कलिङ्गसेनाऽपि सा प्रबुद्धाभवत्ततः ॥१९६॥
शून्यं शयनमालोक्य जगाद च कथं हि माम्।
पूर्वं प्रबुध्य वत्सेशः सुप्तां मुक्त्वाव गच्छति ॥१९७॥
तदाकर्ण्य स वत्सेशमाह यौगन्धरायणः।
एषा विश्वसितानेन शृणु त्वद्रूपधारिणा ॥१९८॥
सैष योगबलाज्ज्ञात्वा साक्षात्ते दर्शितो मया।
किं तु दिव्यप्रभावत्वादसौ हन्तुं न शक्यते ॥१९९॥
इत्युक्त्वा स च राजा च सह तामुपजग्मतुः।
कलिङ्गसेना साप्यात्तौ दृष्ट्वा तस्थौ कृतादरा ॥२००॥
अद्युनेव क्व गत्वा त्वं राजन् प्राप्तः समन्त्रिकः।
इति ब्रुवाणामवदत्तां स यौगन्धरायणः ॥२०१॥
कलिङ्गसेने ! केनापि मायावत्सेशरूपिणी।
संमोह्य परिणीतासि न त्वं मत्स्वामिनाधुना ॥२०२॥
तच्छ्रुत्वा सातिसम्भ्रान्ता विद्धेव हृदि पत्रिणा।
कलिङ्गसेना नरपं जगादोदश्रुलोचना ॥२०३॥
गान्धर्वविधिनाहं ते परिणीतापि विस्मृता।
किं स्विद्राजन् यथापूर्वं दुष्पन्तस्य शकुन्तला ॥२०४॥
इत्युक्तः स तया राजा तामुवाचामलाननः।
सत्यं न परिणीतासि मयाद्यैवागतो ह्यहम् ॥२०५॥
इत्युक्तवन्तं नरपं मन्त्री यौगन्धरायणः।
एहीत्युक्त्वा ततः स्वैरमनैषीद्राजमन्दिरम् ॥२०६॥