सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 829, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 829

७४ कथासरित्सागर
छत्रध्वजाङ्कनिर्मूलिपादाब्जं दिव्यमानुषम्।
स्वापान्तहिततद्विद्यावीतरूपविवर्तनम् ॥१७८॥
तत्र गत्वा यथादृष्टं निवेद्य परितोषवान्।
योगेश्वरो जगादासौ हृष्टो यौगन्धरायणम् ॥१७९॥
न वेत्ति मानुषः किञ्चिद् वेत्सि त्वं नीतिचक्षुषा।
तव मन्त्रेण दुसाध्यं सिद्धं कार्यमिदं प्रभो ॥१८०॥
किं वा व्योम विमार्केण किं तोयेन विना सरः।
किं मन्त्रेण विना राज्यं किं सत्येन विना वच ॥१८१॥
इत्युक्तवन्तमामन्त्र्य प्रीतो योगेश्वरं ततः।
प्रातर्वत्सेश्वरं द्रष्टुमगाद्यौगन्धरायणः ॥१८२॥
समुपेत्य यथावच्च कथा प्रस्तावतोऽब्रवीत्।
नृपं कलिङ्गसेनार्थं पृष्टकार्यविनिश्चयम् ॥१८३॥
स्वच्छन्दवासी न ते राजन् पाणिस्पर्शमिहार्हति।
एषा हि स्वेच्छया द्रष्टुं प्रसेनजितमागता ॥१८४॥
विरक्ता वीक्ष्य तं वृद्धं त्वां प्राप्ता रूपलोभतः।
तवन्त्यपुरवासङ्गमपि स्वेच्छं करोत्यसौ ॥१८५॥
तच्छ्रुत्वा कुरुतन्व्येवं कथमेवं समाचरेत्।
शक्तिः कस्य प्रवेष्टुं वा मदीयान्तपुरान्तरे ॥१८६॥
इति राज्ञोदितेऽभाणीद्धीमान्यौगन्धरायणः।
अद्यैव दर्शयाम्यक्षप्रत्यक्षं निशि देव ते ॥१८७॥
दिव्यास्तामभिवाञ्छन्ति विद्याध्रा मानुषोऽत्र कः।
दिव्यानां च गती रोद्धुं राजन्नेकेह शक्यते ॥१८८॥
तदेहि साक्षात्पश्येति वादिना तेन मन्त्रिणा।
सह गन्तुं मतिं चक्रे तत्र रात्रौ स भूपतिः ॥१८९॥
पद्मावत्याः कृते राज्ञा न विवाहादपरति यत्।
प्रोक्तं देवि प्रतिज्ञातं मया मिथ्यैतदद्य तत् ॥१९०॥
इत्यपाम्येत्य तां देवीमुक्त्वा यौगन्धरायणः।
कलिङ्गसेना वृत्तान्तं हं तस्यै सर्वमुक्तवान् ॥१९१॥
स्वदीयविद्यानुष्ठानफलमेतन्ममेति सा।
देवी वासवदत्तापि प्रणताभिननन्द तम् ॥१९२॥