सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 825, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 825

४६६ कथासरित्सागर
तत्रादिश्य प्रतीहारं शिरोऽर्त्तिव्यपदेशतः ।
वैद्यानानाययत्सर्वान् दत्त्वा पटहघोषणाम् ॥१४८॥
आतुरास्ते कियन्तोऽत्र कस्यादः किं स्वमौषधम् ।
इत्युपानीय पप्रच्छ तानेकैकं विविक्तगः ॥१४९॥
तत्रेपि तस्म त्त्वेकैकं सर्वमूचुर्महीपते ।
एकाऽथ वैद्यस्तन्मध्यात् क्रमपृष्टोऽब्रवीदिदम् ॥१५०॥
वणिजो मातुलत्तस्य देव नागबला गया।
अस्वस्थस्योपदिष्टाद्य द्वितीय दिनमोषधिः ॥१५१॥
तच्छ्रुत्वा स तमाहूय राजा वणिजमभ्यधात्।
ननु नागबला केन तवानीतोच्यतामिति ॥१५२॥
देव कर्मकरेणेति तेनोक्ते वणिजा ततः।
क्षिप्रमानाय्य तं राजा स कर्मकरमब्रवीत् ॥१५३॥
त्वया नागबलाहेतोः खनता क्षितितस्तलम् ।
दीनारजातं यल्लब्धं ब्रह्मस्वं तत्समर्पय ॥१५४॥
इत्युक्तो भूभृता भीतः प्रतिपद्यैव तत्क्षणम् ।
स तानानीय दीनारांस्तत्र कर्मकरो जहौ ॥१५५॥
राजाऽप्युपोषितायास्मै द्विजायहूय तान् ददौ ।
दीनारान् हारितप्राप्तान् प्राणानिव बहिश्चरान् ॥१५६॥
एवं स लब्धवान् बुद्ध्या भीत मुक्तात्तातरो ।
द्विजार्थ भूपतिर्ज्ञान्नोपधिं तां तदुद्भवम् ॥१५७॥
तदेवं सर्वदा बुद्धेः प्राधान्यं जितपौरुषम्।
ईदृशेषु च कार्येषु किं विदध्यात् पराक्रमः ॥१५८॥
तद्योगेश्वर कुर्वीथास्त्वमपि प्रज्ञया तथा।
यथा कलिङ्गसेनाया दोषो ज्ञायेत कश्चन ॥१५९॥
अस्ति चैतद्यथा तस्यां लम्पन्तीह सुरासुराः ।
तथा च दिवि कन्यापि निशि द्याभ्यः श्रुतस्त्वया ॥१६०॥
सम्प्रेक्ष्य दोषे कस्याञ्च भवेदङ्कुशता न न ।
नोपयच्छेत तां राजा न चाधर्म कृतो भवेत् ॥१६१॥
इत्युदारधियः श्रुत्वा सर्वं यौगन्धरायणात् ।
योगेश्वरस्तं सन्तुष्य जगाद प्रह्वराक्षसः ॥१६२॥