सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 815, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 815

४५६ कथासरित्सागर
महामन्त्रिणो यौगन्धरायणस्य राजनैतिकः प्रपञ्चः (पूर्वानुवर्ती)
तस्मात्कलिङ्गसेनेयं परिणीता यदि त्वया।
देवी वासवदत्ता तत्तत्प्राणाञ्जह्यान्न संशयः ॥७६॥
देवी पद्मावती तद्वत्तयोरेकं हि जीवितम्।
नरवाहनदत्तश्च पुत्रस्ते स्यात्कथं ततः ॥७७॥
तच्च देवस्य हृदयं सोढुं ज्ञाने न शक्नुयात्।
एवमेकपदे सर्वमिदं नश्येन्महीपते ॥७८॥
देव्योर्यच्छोक्तिगाम्भीर्यं तदेव कथयत्यलम्।
हृदयं जीवितत्यागगाढनिश्चितनिःस्पृहम् ॥७९॥
तत्स्वार्थो रक्षणीयस्ते तिर्यञ्चोऽपि हि जानते।
स्वरक्षां किं पुनर्देव बुद्धिमन्तो भवादृशाः ॥८०॥
इति मन्त्रिवराच्छ्रुत्वा स्वैरं यौगन्धरायणात्।
सम्यग्विवेकपदवीं प्राप्य वत्सेश्वरोऽब्रवीत् ॥८१॥
एवमेतन्न सन्देहो नश्येत्सर्वमिदं मम।
तस्मात्कलिङ्गसेनायाः शोच्यं परिणयेन मे ॥८२॥
उक्तो सम्बन्ध दूरे यसद्युक्तं गणकै इतम्।
स्वयंवरागतान्यागाद्धर्मो वा कियान्भवेत् ॥८३॥
इत्युक्तो वत्सराजेन हृष्टो यौगन्धरायणः।
चिन्तयामास कार्यं न सिद्धप्रायं यथेप्सितम् ॥८४॥
उपायसरससिक्ता देशकालोपबृंहिता।
सेयं नीतिमहावल्ली किं नाम न फलेत्फलम् ॥८५॥
इति सञ्चिन्त्य स ध्यायन् देशकालौ प्रणम्य तम्।
राजानं प्रययौ मन्त्री गृहं यौगन्धरायणः ॥८६॥
राजापि रचितातिथ्यगताकारामुपेत्य सः।
देवी वासवदत्तां तां सान्त्वयन्नेवमब्रवीत् ॥८७॥
किमर्थं वच्मि जानासि त्वमत्र हरिणाक्षि यत्।
वारि वारिरुहस्येव त्वत्प्रेम मम जीवितम् ॥८८॥
मामापि हि किमन्यस्या ग्रहीतुमहमुत्सहे।
कलिङ्गसेना तु हठादुपायाता गृहं मम ॥८९॥