कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 81, कुल 876 में से
संदर्भ में पढ़ें५० कथासरित्सागर
प्रविश्य स्वस्तिकारं च विधाय गुरुदक्षिणाम्।
योगनन्दा मया तत्र हेमकोटि स याचितः ॥१०३॥
ततः स शकटालस्य सत्यनन्दस्य मन्त्रिणम् ।
सुवर्णकोटिमतरं दापयेति समादिशत् ॥१०४॥
मृतस्य जीवितं दृष्ट्वा सद्यश्च प्राप्तिमर्थिनः ।
स तत्त्वं ज्ञातवान्मन्त्री किमज्ञेयं हि धीमताम् ॥१०५॥
देव ! दीयत इत्युक्त्वा स च मन्त्रीत्यचिन्तयत् ।
नन्दस्य तनयो बालो राज्यं च बहुशत्रुमत् ॥१ ०६॥
तत्सम्प्रत्येव रक्षामि तस्य देहमपीदृशम् ।
निश्चित्यैतत्स वत्कारं शवात्सर्वानदाहयत् ॥१०७॥
चारैरन्विष्य तन्मध्यं लब्ध्वा देवगृहातत ।
व्याडिं विधूय तद्गेहमिन्द्रदत्तकलेवरम् ॥१०८॥
अत्रान्तरे च राजानं हेमकोटिसमर्पणे ।
त्वरमाणमथाह स्म शकटालो विचारयन् ॥१०९॥
उत्सवाक्षिप्तचित्तोऽयं सर्वः परिजनः स्थितः ।
क्षणं प्रतीक्षतामयं विप्रो यावद्ददाम्यहम् ॥११०॥
अथैत्य योगनन्दस्य व्याडिनाक्रन्दितं पुरः ।
अहहाऽस्मत्सुहृत्क्रान्तजीवो योगस्थितो द्विजः ॥१११॥
प्रताम्यताव द्वयं दग्धाद्गहस्ततोदय ।
तच्छ्रुत्वा योगनन्दस्य तापश्चिन्ताभवन्महान् ॥११२॥
वह दाहात्स्थिरे तस्मिञ्जात निर्गत्य मे दृढौ ।
सुवर्णकोटिं स ततः शकटाले महामतिः ॥११३॥
योगनन्दोऽथ विजनं सङ्केतो व्याडिमब्रवीत् ।
मूढीभूतोऽस्मि विप्रोऽपि कि धिया स्थिरयापि मे ॥११४॥
तच्छ्रुत्वादत्ततस्य तं व्याडि कालोचितमभाषत ।
ज्ञातोऽसि शकटालेन तदेनं चिन्तयाधुना ॥११५॥
महामन्त्री ह्ययं स्वञ्चन्मन्त्रियत्तो विनाश्यत् ।
पूर्वानन्दसुतं कुर्याच्चन्द्रगुप्तं हि भूमिपम् ॥११६॥
तस्माद् वररुचिं मन्त्रिसुमुख्यत्वं कुरु यत्नतः ।
एतद्बुद्ध्या मवद्राज्यं स्थिरं दिष्यानुभावया ॥११७॥