सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 809, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 809

७५ कथासरित्सागर
ततः स तस्मै चुक्रोध परिव्राड्विधुरो ब्रुवन्।
सोऽपि गीतं विमुच्याथ कार्पटिकस्तमभाषत ॥३३॥
अहो प्रव्राजकोऽसि त्वं धर्मस्वार्थं न वेत्स्यसि।
मूर्खेणापि मया ज्ञातं सारं धर्मस्य यत्पुनः ॥३४॥
तच्छ्रुत्वा किं त्वया ज्ञातमिति तेन च कौतुकात्।
प्रव्राजकेन पृष्टः सन्कार्पटिकः स जगाद तम् ॥३५॥
इहोपविश प्रच्छाये शृणु यावद् वदामि ते।
अस्मिन्प्रदेशे विद्यन्ते ब्राह्मणा भ्रातरस्त्रयः ॥३६॥
ब्रह्मदत्तः सोमदत्तो विष्णुदत्तश्च पुण्यकृत्।
येषां ज्येष्ठौ दारवन्तौ कनिष्ठस्त्वपरिग्रहः ॥३७॥
स तयोर्ज्येष्ठयोराज्ञां कुर्वन् कर्मकरो यथा।
मया सहासीदुच्छिन्नग्रहः तेषां हि कार्पिकः ॥३८॥
तौ च ज्येष्ठौ व्यबुध्येतां मृदु सं धृतिवर्जितम्।
साधुमप्यत्यन्तसं मार्गमृजुमायासवज्जितम् ॥३९॥
एकदा भ्रातृजायाभ्यां सकामाभ्यां रहोऽथितः।
कनिष्ठो विश्वदत्तोऽथ मातृत्वत्ते निराकरोत् ॥४० ॥
ततस्ते निजयोर्भर्त्रोरग्रे गत्वा मृषोचतुः।
वाञ्छत्यावां रहस्येष कनीयान्युवयोरिति ॥४१॥
तेनं त प्रति तौ ज्येष्ठौ सान्तःकोपौ बभूवतुः।
सदसद् वा न विद्मस्तु कुस्त्रीवचनमोहितौ ॥४२॥
अथतौ भ्रातरौ जातु विश्वदत्तं तमूचतुः।
गच्छ त्वं क्षेत्रमध्यस्थं वल्मीकं त समीकुरु ॥४३॥
तथेत्यागत्य वल्मीक कुद्दालेनाखनत् स तम्।
मा मैवं कृष्णसर्पोऽत्र वसतीत्युदितो मया ॥४४॥
तच्छ्रुत्वापि स वल्मीकमखनद्दृढभवत्त्विति।
पापैषिणोरप्यादेशं ज्येष्ठभ्रात्रोरलङ्घयन् ॥४५॥
खन्यमानात्तत प्राप कलश हेमपूरितम्।
न कृष्णसर्पं धर्मो हि सान्निध्यं कुरुते सताम् ॥४६॥
तं च नीत्वा स कलशं भ्रातृभ्यां सर्वमर्पयत्।
निवार्यमाणोऽपि मया ज्येष्ठाभ्यां दृढभक्तितः ॥४७॥