कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 805, कुल 876 में से
संदर्भ में पढ़ें७४६ कथासरित्सागर
औत्सुक्यविमनास्तस्मिन्दिने चेतो विनोदयन् ।
देव्या वासवदत्ताया निवासभवनं ययौ ॥४॥
तत्र सा तं पतिं देवी निर्विकारा विशंपतं ।
उपाचरत् स्वोपचारैः प्राङ्मन्त्रिवरशिक्षिता ॥५॥
कलिङ्गसेनात्तान्ते ख्यातेऽप्यविकृता कथम् ।
देवीयमिति स ध्यात्वा राजा जिज्ञासुरूह ताम् ॥६॥
कच्चिद्देवि त्वया ज्ञातं स्वयंवरकृतो मम।
कलिङ्गसेना नामैषा राजपुत्री यदागता ॥७॥
सन्सूर्त्यैवाविभिन्नेन मुखरागेण साऽब्रवीत् ।
ज्ञातं मयातिहर्षो मे लक्ष्मी सा ह्यागतेह न ॥८॥
वशगे हि महाराजे तत्प्राप्त्या तत्पितर्यपि ।
कलिङ्गदत्ते पृथ्वी ते सुतरां वर्तते वशे ॥९॥
अहं च त्वद्विभूत्यैव सुखिता त्वत्सुखेन च ।
आर्यपुत्र ! सर्वैतच्च विदितं प्रागपि स्थितम् ॥१०॥
तन्न धन्यास्मि किं यस्या मम भर्ता त्वमीदृशः ।
यं राजकन्या वाञ्छन्ति वाञ्छ्यमाना नृपान्तरैः ॥११॥
एवं वत्सेश्वरः प्रोक्तो देव्या वासवदत्तया।
यौगन्धरायणप्रसशिक्षयान्तस्तुतोष सः ॥१२॥
तयैव च सहासेव्य पानं सद्धासके निशि ।
तस्यां सुष्वाप मध्ये च प्रबुद्धः समचिन्तयत् ॥१३॥
किन्त्विमहानुभावैत्थं देवी मामनुवर्तते ।
कलिङ्गसेनापि यत्सपत्नीमनुमन्यते ॥१४॥
कथं वा शक्नुयादेतां सोढुं सैषा तपस्विनी ।
पद्मावती विवाहेऽपि या दैवान्न जहावसून् ॥१५॥
तदस्याश्चेदनिष्टं स्यात्प्रार्थनाद्यन्ततो भवेत् ।
एतदासम्यना पुत्रश्वशूर्यद्वयगुरादष मे ॥१६॥
पद्मावती च राज्यं च किमप्यधिकमुच्यते ।
अतः कलिङ्गसेनेषा परिणेया कथं मया ॥१७॥
एवमालोच्य वत्सेशो निद्रान्ते निर्जगामतः ।
अपराह्ने ययौ देव्या पद्मावत्या स मन्दिरम् ॥ १८॥