कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 795, कुल 876 में से
संदर्भ में पढ़ें७३६ कथासरित्सागर
यन्मया सहसा देव्याः प्रतिमा पुरतः कृता।
विज्ञानं चात्र तादृङ्मे सम्यककिञ्चिन्न विद्यते ॥१३३॥
अन्यत्रैव च न व्याजः कर्तुं राजगृहे क्षमम्।
ज्ञात्वा जातु हि कुर्वीरन्निग्रहं प्रभविष्णवः ॥१३४॥
एकस्तत्राभ्युपायः स्याद्यत्सङ्गे मेऽस्ति नापितः।
ईदृग्विज्ञानकुशलः स चेत्कुर्यान्महोद्यमम् ॥१३५॥
इत्यालाख्यैव सा तस्य नापितस्यान्तिकं ययौ।
तस्मै मनीषितं सर्वं तच्छासादर्शिसिद्धिदम् ॥१३६॥
ततः स नापितो वृद्धो धूर्तदश्चैवमचिन्तयत्।
उपस्थितमिदं दिष्ट्या लाभस्थानं ममाधुना ॥१३७॥
तन्न वाच्या नवा राजवधू रक्ष्या तु सा यतः।
दिव्यदृष्टिः पिता तस्य सर्वं प्रख्यापयिष्यति ॥१३८॥
विशिष्येतां तु नृपतेर्देवी सम्प्रति मुञ्च्यते।
पुरहस्य-सहाये हि भर्ते भृत्यायते प्रभुः ॥१३९॥
सङ्क्षेप्ये काले राज्ञे च वाच्यमेतत्तथा मया।
यथा स्यादुपजीव्यो मे राजा सा वणिककन्यका ॥१४०॥
एवं च नातिपापं स्याद् भवेद्दीर्घा च जीविका।
इत्यालोच्य स तां प्राह नापितः कूटतापसीम् ॥१४१॥
अम्ब ! सर्वं करोम्येतत्किं तु मोगबलेन चेत्।
एषा राज्ञो नवा भार्या हन्यते तन्न युज्यते ॥१४२॥
बद्धवा क्वापिद्विजा हि सर्पानस्मान् विनाशयेत्।
स्त्रीहत्या पातकं च स्यात्तत्पिता च मुनिः शपेत् ॥१४३॥
तस्माद् बुद्धिबलेनैषा राज्ञो विश्लेष्यते परम्।
येन देवी सुखं तिष्ठेद्वधप्राप्तिर्भवेन्न च ॥१४४॥
एतच्च मे कियत्किं हि न बुद्ध्या साधयाम्यहम्।
प्रज्ञानं मामकीनं च शृणुतां वर्णयामि ते ॥१४५॥
अभून्मम पिता राज्ञो दुःशीलो वृद्धशर्मणः।
अहं च दामस्तम्येहं राजः स्वापितकर्मकृत् ॥१४६॥
स कदाचिदिहं भ्राम्यन्भार्यामागन् मामकीम्।
तस्यां तस्य गुरुपापां तस्यां च मनो ययौ ॥१४७॥