सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 793, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 793

यदि भर्त्रा कृतावज्ञा कदाचित्त्वमिहैष्यसि ।
ध्वज्जावैरैभिरायान्ती पन्थानं पुत्र वेत्स्यसि ॥११८॥
इत्युक्ता तामिरारोप्य कृतोद्वाहं स्ववाजिनि ।
स राजा कदलीगर्भां दृढवर्मा ययौ यतः ॥११९॥
प्राप्तान्वागतसैन्योऽथ वपन्त्या सर्वपान्पथि ।
वध्वा तया सह प्राप राजधानीं निजां च सः ॥१२०॥
तत्रान्यपत्नीविमुखः कदलीगर्भया तया ।
समं स सस्पहावस्थातद्वृत्तान्तं स्वमन्त्रिषु ॥१२१॥
ततस्तस्य महादेवी तदीयं मन्त्रिणं रहः ।
स्मारयित्वोपकारान् स्वान् अगादात्मन्दुःखिता ॥१२२॥
राज्ञा नूतनभार्यैकसक्तेनाद्याहमुज्झिता ।
तत्त्था कुरु येनैषा सपत्नी मे निवर्त्तते ॥१२३॥
तच्छ्रुत्वा सोऽब्रवीन्मन्त्री देवि कर्तुं युज्यते ।
मादृशानां प्रभोः पत्न्या विनाघोऽप्य वियोजनम् ॥१२४॥
एष प्रव्राजकस्त्रीणां विषयः कुहकादिषु ।
प्रयोगेष्वभियुक्तानां सङ्कतानां तथाविधे ॥१२५॥
ता हि कैतवतापास्यः प्रविश्यैवानिवारिताः ।
गृहेषु मायाकुशलाः कर्म किं किं न कुर्वते ॥१२६॥
इत्युक्ता तेन सा देवी विनतवाह तं हिया ।
अलं तर्हि ममानेन गर्हितेन सतामिति ॥१२७॥
तद्वधो हृदि कृत्वा तु सं विसृज्य च मन्त्रिणम् ।
काञ्चित्प्रव्राजिकां चेटीमुखेनानयति स्म सा ॥१२८॥
तस्याः शशंस चामूलात्तत्सर्वं स्वमनीषितम् ।
अङ्गीचकार सासु च सिद्धे कार्ये धनं महत् ॥१२९॥
साप्यर्थलोभादार्त्ता तामित्युवाच कुतापसी ।
देवि किं नाम वस्तुतद्वहं ते साधयाम्यदः ॥१३०॥
मानाविधान्हि जानामि प्रयोगान् सुवहूनहम् ।
एवमाश्वास्य तां देवीं साप प्रव्राजिका ययौ ॥१३१॥
मन्त्रिकां प्राप्य च निजां भीतेवेत्थमचिन्तयत् ।
अहो अतीव भोगाशा क नाम न विडम्बयेत् ॥१३२॥