सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 791, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 791

७२६ कथासरित्सागर
यन्मया सहसा देव्याः प्रतिज्ञा पुरतः कृता ।
विज्ञानं नात्र सादृक्ष्मे सम्यककिञ्चिच्च विद्यते ॥१३३॥
अन्यत्रेव च न व्याजः कृतः राजगृहे क्षमम् ।
ज्ञात्वा जातु हि कुर्वीरन्निग्रहं प्रभविष्णवः ॥१३४॥
एकस्तत्राभ्युपायः स्याद्यत्सुहृन्मेऽस्ति नापितः ।
ईदृग्विज्ञानकुशलः स जतुर्यादिहोद्यमम् ॥१३५॥
इत्यालोच्यैव सा तस्य नापितस्यान्तिकं ययौ ।
तस्मै मनीषितं सर्वं तच्छशंसांर्थसिद्धिदम् ॥१३६॥
तत स नापितो वृद्धो धूर्तश्चैवमचिन्तयत् ।
उपस्थितमिदं विष्ट्या लाभस्थानं ममाधुना ॥१३७॥
सन्न वाच्या नवा राजवधू रक्ष्या तु सा यतः ।
दिव्यदृष्टिः पिता तस्य सर्वं प्रख्यापयेदिदम् ॥१३८॥
विदितेऽप्येतौ तु नृपतेर्देवी सम्प्रति मुञ्चतु ।
क्रूरहस्य-सहाये हि भृते मरयामते प्रभुः ॥१३९॥
संश्लेष्य काले राजे च वाच्यमेतत्तथा मया ।
यथा स्यादुपजीव्यो मे राजा सा वणिककन्यका ॥१४०॥
एवं च नातिपापं स्याद् भवेद्दीर्घा च जीविका ।
इत्यालोच्य स तां प्राह नापितः कूटतापसीम् ॥१४१॥
अम्ब ! सर्वं करोम्येतत्किं तु योगबलेन चेत् ।
एषा राज्ञो नवा भार्या हन्यते तन्न युज्यते ॥१४२॥
यद्वा कदाचिद्राजा हि सर्वानस्मान् विनाशयेत् ।
स्त्रीहत्या पातकं च स्यात्पिता च मुनिः शपेत् ॥१४३॥
तस्माद् बुद्धिवलेनैषा राज्ञो विश्लेष्यते परम् ।
येन देवी सुखं तिष्ठेदर्थप्राप्तिर्भवेच्च नः ॥१४४॥
एतच्च न कियत्क्षिप्रं हि न बुद्ध्या साधयाम्यहम् ।
प्रज्ञानं मायरूपं च श्रूयतां वक्ष्यामि ते ॥१४५॥
अभूदस्य पिता राज्ञो दुःशीलो दुष्टवल्लभः ।
अह च दासस्तस्याहं गतः स्वाक्षिप्तकर्मकृत् ॥१४६॥
स कदाचिदिह भ्रान्त्या भार्यामन्तः मामकीम् ।
तस्यां तस्य सुरूपायां तरुण्या च मनो ययौ ॥१४७॥