कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 783, कुल 876 में से
संदर्भ में पढ़ें७२६ कथासरित्सागर
स एको जाग्रदेवांसीदमनुष्यगृहाश्रयात्।
स्वपन्त्यज्ञा हि निश्चेष्टाः कुतो निद्रा विवेकिनाम्॥६०॥
तावच्च तत्र पुरुषः कोऽप्येको निभृतं युवा।
अभ्यन्तरगृहं तस्याः प्रविवेशान्तिकं स्त्रियाः॥६१॥
तेन साकं च सा रेमे चिरं गुप्ताभिभाषिणी।
रतिश्रान्तौ च तौ दैवान्निद्रां द्वावपि जग्मतुः॥६२॥
तच्च दीपप्रकाशेन सर्वं द्वारान्तरेण सः।
विष्णुदत्तो विलोक्यैवं सनिर्वेदमचिन्तयत्॥६३॥
कष्टं क्व प्रविष्टाः स्मो दुश्चारित्र्याः स्त्रिया गृहम्।
ध्रुवं ज्ञातोऽयमेतस्या न कौमारः पतिः पुनः ॥६४॥
नान्यथा हि भवेदेषा सशङ्कनिभृता गतिः।
मया चपलचित्तेयमादावेव न लक्षिता॥६५॥
अन्यालाभात् प्रविष्टाः स्मः किं त्वत्रान्योन्यसाक्षिणः।
इत्येवं चिन्तयन् शब्दं जनानां सोऽशृणोद् बहिः॥६६॥
ददर्श प्रविशन्तं च स्वस्थानस्थानितानुगम्।
युवानमभिपश्यन्तं सशङ्गं शवराधिपम् ॥६७॥
के यूयमिति पृच्छन्तं मत्वा गृहपतिं स तम्।
भीताः पान्थाः स्म इत्याह विष्णुदत्तः पुलिन्दकम्॥६८॥
स चान्तः शबरो गत्वा दृष्ट्वा भार्यां तथास्थिताम्।
चिच्छेद तस्य सुप्तस्य तज्जारस्यासिना शिरः ॥६९॥
भार्या तु निगृहीता न तेन सा नापि बोधिता।
भुवि न्यस्तासिनान्यत्र पर्यङ्के सुप्तमेव तु ॥७०॥
तद्बुद्ध्वा सप्रतीपेक्षं विष्णुदत्तो व्यचिन्तयत्।
युक्तं स्त्रीति न यद्भार्या हता जारहरो हतः॥७१॥
किं तु क्रूरमेदं कर्म यन्नेनात्र सुप्यते।
विस्रब्धं तदहो चित्रं वीर्यमुद्रिक्तचेतसाम्॥७२॥
इत्यत्र चिन्तयत्येव विष्णुदत्ते प्रबुध्य सा।
कुस्त्री ददर्श जारं स्वं हतं सुप्तं च तं पतिम् ॥७३॥
उत्थाय च गृहीत्वा तत्स्कन्धे जारकबन्धनम्।
हस्तेनैकेन चादाय तच्छिरः सा विनिर्ययौ ॥७४॥