कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 779, कुल 876 में से
संदर्भ में पढ़ें७२२ कथासरित्सागर
इत्युक्तो मन्त्रिणा तेन सोऽब्रवीद् ब्रह्मराक्षसः।
युक्त्याहमेव किं नैतां ध्वंसयामि निहन्मि वा ॥३२॥
तच्छ्रुत्वैव महामन्त्री तं स यौगन्धरायणः।
उवाच नैतत्कर्तव्यमधर्मो हि महान् भवेत् ॥३३॥
यश्च धर्ममबाधित्वा स्वेन संसरते पथा।
तस्योपयाति साहाय्यं स एवाभीष्टसिद्धिषु ॥३४॥
सतस्याः स्वोत्थितो दोषः प्रेक्षणीयस्त्वया सखे।
येनास्माभिर्भवन्मैत्र्या राजकार्यं कृतं भवेत् ॥३५॥
इति मन्त्रिवरादिष्टः स गत्वा ब्रह्मराक्षसः।
गृहं कलिङ्गसेनाया योगच्छन्न प्रविष्टवान् ॥३६॥
अत्रान्तरे सखी तस्याः सा मयासुरपुत्रिका।
आगात्कलिङ्गसेनायाः पार्श्वं सोमप्रभा पुनः ॥३७॥
सा पृष्ट्वा रात्रिवार्त्तां तां मुक्तवधूं मयात्मजा।
राजपुत्रीमुवाचैव तस्मिन् सुष्वति राक्षसे ॥३८॥
अद्य पूर्वाह्ण एवाहं विचिन्त्य त्वामिहागता।
छन्ना स्थिताऽभवत्पार्श्वे दृष्ट्वा यौगन्धरायणम् ॥३९॥
श्रुतश्च युष्मदालापः सर्वं चावगतं मया।
तत्किं त्वया ह्य एवैतदारब्धं मन्निषिद्धया ॥४०॥
भव्यपोह्यानिमित्तं हि कार्यं यत्क्रियते सखि।
तदनिष्टाय कल्पेत तथा चेमां कथां शृणु ॥४१॥
विष्णुदत्तस्यतत्सप्तसहयात्रिविप्राणाञ्च कथा
अन्तर्वेद्या¹मभूत्पूर्वं वसुदत्त इति द्विजः।
विष्णुदत्ताभिधानश्च पुत्रस्तस्योदपद्यत ॥४२॥
स विष्णुदत्तो वयसा पूर्णषोडशवत्सरः।
गन्तुं प्रवृत्तो विद्याप्राप्तये वलभीं पुरीम् ॥४३॥
मिलन्ति स्म च तस्यान्ये सप्त विप्रसुताः समाः।
सप्तापि ते पुनर्मूर्खाः स विद्वान् सत्कुलोद्गतः ॥४४॥
१ अन्तर्वेदी।