कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 777, कुल 876 में से
संदर्भ में पढ़ें७२० कथासरित्सागर
श्रुत्वा दूरतरं तं च रुन्मनाविघ्नचेतसि ।
ततः कलिङ्गसेनायां समहत्तरकोऽभ्यधात् ॥१७॥
प्रेक्ष्यो लग्नोऽनुकूलः प्रायेन स्यादेतयोः शुभम् ।
यावत्कालं हि दम्पत्यो र्कि चिरेणाचिरेण वा ॥१८॥
एतन्महत्तरवचः श्रुत्वा सर्वेऽपि तत्क्षणम् ।
सदुक्तमेवमेवैतदिति तत्र बभाषिरे ॥१९॥
यौगन्धरायणोऽप्याह हा कुलघ्ने कृते च न ।
कलिङ्गवतः सम्बन्धी राजा शेषं व्रजेदिति ॥२०॥
ततः कलिङ्गसेनापि सर्वांस्तानवशा सती ।
यथा भवन्तो जानन्तीत्युक्त्वा सज्जी बभूव सा ॥२१॥
तदेव च वचस्तस्या गृहीत्वामन्त्र्य तां ततः ।
यौगन्धरायणो राज्ञः पार्श्वं सगणको ययौ ॥२२॥
तत्र तस्मै तदाधाय वत्सेशाय तथैव सः ।
युक्त्या च तमवस्थाप्य स जगाम निजं गृहम् ॥२३॥
सिद्धकालातिपातश्च कार्यशेषाय तत्र सः ।
योगेश्वराख्यं सुहृदं सस्मार ब्रह्मराक्षसम् ॥२४॥
स पूर्वप्रतिपन्नस्तं स्वैरं ध्यानादुपस्थितः ।
राक्षसो मन्त्रिणं नत्वा किं स्मृतोऽस्मीत्यवोचत ॥२५॥
ततः स मन्त्री तस्मै तं कृत्स्नं व्यसनं प्रभोः ।
कलिङ्गसेनावृत्तान्तमुक्त्वा भूयो जगाद तम् ॥२६॥
कालो मया हृतो मित्र तमद्ये त्वं स्वमुचितं ।
युक्तं कलिङ्गसेनायाः प्रच्छन्नोऽन्यां निरूपयेः ॥२७॥
विद्याधरादयस्तां हि छन्नं वाञ्छन्ति निश्चितम् ।
यतोऽन्या तादृशी नास्ति रूपेणास्मिञ्जगत्त्रये ॥२८॥
अतः केनापि सिद्धेन सह विद्याधरेण वा ।
गच्छेद्विसा यदि तच्च त्वं पश्येस्तदमङ्गलं भवेत् ॥२९॥
अन्यरूपागतश्चात्र लक्ष्यस्ते दिव्यकामुकः ।
स्वापकाले यतो दिव्याः सुप्ताः स्वे रूप आसते ॥३०॥
एवं स्वदृष्टितस्तस्या दोषोऽस्माभिर्विलोक्यते ।
तस्यां राजा विरज्येच्च तत्कार्यं निर्वहेच्च न ॥३१॥