कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 775, कुल 876 में से
संदर्भ में पढ़ें७१८ कथासरित्सागर
तच्छ्रुत्वा सोऽब्रवीद्राजा ममाप्येवं हृदि स्थितम् ।
तां बिना हि मुहूर्तं मे स्थातुं न सहते मनः ॥३॥
इत्युक्त्वैव स तत्कालं प्रतीहारं पुरःस्थितम् ।
आदिश्यानाययामास गणकान् सरलाक्षयः ॥४॥
तेन पृष्टा महामन्त्रिपूर्वस्थापितसंविदः ।
ऊचुर्लग्नोऽनुकूलोऽस्ति राज्ञो मासेषु षट्स्वितः ॥५॥
तच्छ्रुत्वैव मृषा कोपं कृत्वा यौगन्धरायणः ।
अज्ञा इमे धिगित्युक्त्वा राजानं निपुणोऽब्रवीत् ॥६॥
योऽसौ ज्ञानीति देवेन पूजितो गणकः पुरा ।
स नागतोऽद्य तं पृष्ट्वा यथायुक्तं विधीयताम् ॥७॥
एतन्मन्त्रिवचः श्रुत्वा वत्सेशो गणकं तदा ।
तमप्यानाययामास दोलारूढेन चेतसा ॥८॥
सोऽप्यस्य कालहाराय स्थितसंवित्तथैव तम् ।
लग्नं पृष्टोऽब्रवीद्ध्यात्वा षण्मासान्ते व्यवस्थितम् ॥९॥
ततो राजानमद्विग्न इव यौगन्धरायणः ।
जगाद देव कर्तव्यं किमत्राविधीयतामिति ॥१०॥
राजाप्युक्तः सुरुग्नेयी स विमृश्य ततोऽभ्यधात् ।
कलिङ्गसेना प्रष्टव्या सा त्रिमाहेत्यवेक्ष्यताम् ॥११॥
सञ्छ्र्त्वा स तथेत्युक्त्वा गृहीत्वा गणकद्वयम् ।
पार्श्वं कलिङ्गसेनाया ययौ यौगन्धरायणः ॥१२॥
तया कृतादरो दृष्ट्वा तद्रूपं स व्यचिन्तयत् ।
प्राप्येमां व्यसनाद्राजा सर्वं राज्यं त्यजेदिति ॥१३॥
उवाच चैनामुद्वाहलग्नं ते गणकैः सह ।
निर्द्धातुमागतोऽस्म्येतैस्त्वं मद्य तन्निषेव्यताम् ॥१४॥
तच्छ्रुत्वा जन्मऋक्षं तस्याः परिजनोदितम् ।
गणकास्ते मृषा कृत्वा विचारं मन्त्रिसंविदा ॥१५॥
लग्नं तमेव तत्रापि मासषट्कान्तवर्त्तिनम् ।
नातीतः पुरोऽस्तीति वदन्तः पुनरभ्यधुः ॥१६॥