कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 773, कुल 876 में से
संदर्भ में पढ़ें७१६ कथासरित्सागर
कलिङ्गसेनास्वीकारं श्रद्दध्यात्तस्य साम्प्रतम्।
ब्रूहि मुग्धाणा राज्यस्य महाये तत्पितर्यपि ॥८९॥
एवं कृते च माहात्म्यगुणं दृष्ट्वा परं तव।
प्रवृद्धस्नेहदाक्षिण्यो राजासौ भवति त्वयि ॥९०॥
मत्वा कलिङ्गसेनां च स्वाधीनां नोत्सुको भवेत्।
वार्यमाणस्य वाञ्छा हि विषयेष्वभिवर्धते ॥९१॥
देवी पद्मावती चैतच्छिक्षणीया स्वयानघे।
एवं स राजा कार्येऽस्मिन्कालक्षेपं सहेत न ॥९२॥
अतः परं च जानेऽहं पदयेयुक्तिरुत्तरम्।
सङ्कटे हि परीक्ष्यन्ते प्राज्ञा शूराश्च सङ्गरे ॥९३॥
तद्देवि मा विषण्णा भूरिति देवीं प्रबोध्य ताम्।
तथादृतोक्तिः स ययौ ततो यौगन्धरायणः ॥९४॥
वत्सेश्वरश्च तदहर्न दिवा न रात्रौ
देव्योर्द्वयोरपि स वासगृहं जगाम।
तादृक्स्वयंवररसापनमत्कलिङ्ग-
सेनासमाननवसंगमसोत्सुचेताः ॥९५॥
रात्रिं च दुर्लभरसोत्सुकतातिगाढ-
चिन्तामहोत्सवमयीमिव तां ततस्ते।
निन्युः स्वसद्मसु पृथक्पृथगेव देवी
वत्सेशतत्सचिवमुख्यकलिङ्गसेनाः ॥९६॥
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे मदनमञ्चुका लम्बके
पञ्चमस्तरङ्गः।
षष्ठस्तरङ्गः
कलिङ्गसेनायाः कथा
यौगन्धरायणस्य कूटनीतिप्रपञ्चः
ततः प्रतीक्षमाणं तं वत्सराजमुपेत्य सः।
यौगन्धरायणो धूर्तः प्रातर्मन्त्री व्यजिज्ञपत् ॥१॥
'भगवन् कलिङ्गसेनाया देव्यस्य च शुभावहम्।
विवाह मङ्गलायेह किं नाद्यैव विलोक्यते ॥२॥
१ प्राचीनपुस्तकेऽस्माच्छ्लोकात्पूर्वं राजन् ! कलिङ्गदत्तस्य राज्ञस्तत्कलिकालतो
इत्यधिकः पाठः समुपलभ्यते।