सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 747, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 747

१९२ कथासरित्सागर
एवं स पित्र्यं राज्यं तत्प्राप्य जित्वा ततोऽखिलाम् ।
यौगन्धरायणसखः प्रशास्त्युदयनो महीम् ॥६०॥
इत्याशु कथयित्वा सा कथां सोमप्रभा रहः ।
सखीं कलिङ्गसेनां तां पुनरेवमभाषत ॥६१॥
एवं वत्सपुरे राजत्वाद्वत्सराजः सुगात्रि सः ।
पाण्डवान्वयसम्भूत्या सोमवंशोद्भवस्तथा ॥६२॥
नाम्नाप्युदयनः प्रोक्तो देवरूप्यजन्मना ।
रूपेण चात्र संसारे कन्दर्पोऽपि न तादृशः ॥६३॥
स एकस्तव तुल्योऽस्ति पतिस्त्रैलोक्यसुन्दरि ।
स च वाञ्छति लावण्यल्ब्धस्तां प्राप्सिता ध्रुवम् ॥६४॥
किं तु चण्डमहासेनमहीपतितनूद्भवा ।
अस्ति वासवदत्ताख्या तस्याग्रमहिषी सति ॥६५॥
तया स न वृतस्त्यक्त्वा बान्धवानतिरक्तया ।
उपायेङ्गितवेदीनां कन्यानां धुतसञ्जयः ॥६६॥
नरवाहनदत्ताख्यस्तस्यां जातोऽस्य चात्मजः ।
आदिष्टः किल देवैर्या भावी विद्याधराधिपः ॥६७॥
अतस्तस्याः स वत्सेशो विमत्त्वां नेह याचते ।
सा च दृष्टा मया न त्वां स्पर्धते रूपसम्पदा ॥६८॥
एवमुक्तवतीं तां च सखीं सोमप्रभां तदा ।
कलिङ्गसेना वत्सशंगोत्सुका निजगाद सा ॥६९॥
जानेऽहमेतदवस्थायाः पित्रोः सख्यं तु किं मम ।
सर्वज्ञा सुप्रभावा च त्वमेवात्र म गतिः ॥७०॥
दैवायत्तमिदं कार्यं तथा चात्र कथां शृणु ।
सोमप्रभा तामित्युक्त्वा शशंसान्ये कथामिमाम् ॥७१॥
तेजस्वत्याः कथा
राजा विक्रमसेनाख्य उज्जयिन्यामभूत्पुरा ।
तस्य तेजस्वतीत्यासीद्रूपेणाप्रतिमा सुता ॥७२॥
तस्याह्यभिमतः कश्चिद्याच्या नाभूद्वरो नृपः ।
एकदा च ददर्श पुरुषं सा स्वहर्म्यगा ॥७३॥