सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 745, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 745

६२ कथासरित्सागर
नाम्नो निमित्तमप्यस्य शृणु सा हि मृगावती।
अन्तर्वत्नी सती राज्ञो जनन्यस्य सजन्मना ॥४५॥
उत्पन्नरुधिरस्नानदोहदा पापभीरुणा।
भर्त्रा रचितलाक्षादिरसवापीकृताप्लवा ॥४६॥
पक्षिणा तार्क्ष्यवंश्येन निपतत्यामिषक्षुधया।
नीत्वा विधिवशात्त्यक्ता जीवन्त्येवोदयाचले ॥४७॥
तत्र चाश्वासिता भूयो भर्तृसङ्गमवादिना।
जमदग्न्यर्षिणा दृष्टा स्थितासौ तत्र चाश्रमे ॥४८॥
अवज्ञाजनितैर्ष्यायाः कश्चित्काल हि तादृशः।
शापस्तिलोत्तमातोऽभूत्तद्भर्तुस्तद्वियोगकृत् ॥४९॥
दिवसे सा च तत्रैव जमदग्न्याश्रमे सुतम्।
उदयाद्रौ प्रसूते स्म द्यौरिन्दुमिव नूतनम् ॥५०॥
असावदमनो जात सार्वभौमो महीपतिः।
जनिष्यते च पुत्रोऽस्य सर्वविद्याधराधिपः ॥५१॥
इत्युच्चार्याम्बराद् वाणीमशरीरां तदा सुखम्।
प्रागोदयन इत्यस्य देवैरुदयजं कृतम् ॥५२॥
सोऽपि शापान्तबद्ध्याशः काल मात्रस्थितोधितः।
कृच्छ्रात् सहस्रानीकस्तां विनानेपीन्मृगावतीम् ॥५३॥
प्राप्ते शापावसाने तु शबराद् विधियोगतः।
उदयाद्रेश्रपायातात् प्राप्याभिज्ञानमात्मनः ॥५४॥
आवेदितार्थस्तत्पाल गगनोद्भूतया गिरा।
दावरं तं पुरस्कृत्य जगामेवोद्याश्रमम् ॥५५॥
तत्र वाञ्छितमसिद्धिमिव प्राप्य मृगावतीम्।
भार्यामुदयनं तं च मनोरथमिवात्मजम् ॥५६॥
तौ गृहीत्वाय कौशाम्बीमागत्यैवाभिपिञ्चतान्।
यौवराज्ये तनूजं सं तद्गुणोत्कषतोषितः ॥५७॥
योगंधरायणादींश्च तस्मै मन्त्रिसुतान् ददौ।
तेनाप्तभागे शुशुभे भोगा भार्यामिवस्थिरम् ॥५८॥
आत्मारराज्यं राज्यं च तमवान्यनं सुतम्।
शुद्धं स भार्यागच्छित्वा ययौ राजा महापथम् ॥५९॥