सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 743, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 743

१८८ कथासरित्सागर
प्रसेनजिच्च प्रवया स दृष्टो नृपतिर्मया।
जातीपुष्पस्य जात्येव जीर्णस्यास्य कुलेन किम् ॥३०॥
हिमशुभ्रेण तेन त्व हेमन्तेनेव पद्मिनी।
परिम्लानाम्बुजमुखी युक्त्त्या शाष्या भविष्यसि ॥३१॥
अतो जातो विषादो मे प्रहर्षस्तु भवेन्मम।
यदि स्याद् वत्सराजस्ते कल्याण्युदयन पति ॥३२॥
तस्य नास्ति हि रूपेण लावण्येन कुलेन च।
शौर्येण च विभूत्या च तुल्योऽन्यो नृपतिर्भुवि ॥३३॥
तेन चेद्युज्यसे भर्त्रा सदृशेन कृशोदरि।
धातु फलति लावण्यनिर्माणं तदिदं त्वयि ॥३४॥
इति सोमप्रभाक्ॢप्तैर्वाक्यैम्र्मैन्त्रैरिवेरितम्।
ययौ कलिङ्गसेनाया मनो वत्सेश्वर प्रति ॥३५॥
ततश्च सा तां पप्रच्छ राजकन्या समारमजाम्।
कथं स वत्सराजाख्य सखि किं वंशसम्भवः ॥३६॥
कथं चोदयनो नाम्ना त्वया मे कथ्यतामिति।
साथ सोमप्रभावादीच्छृणु तत्सखि वच्मि ते ॥३७॥
वत्स इत्यस्ति विख्यातो देशो भूमेर्विभूषणम्।
पुरी तत्रास्ति कौशाम्बी द्वितीयेवामरावती ॥३८॥
तस्यां स कुरुते राज्य यतो वत्सेश्वरस्ततः।
वंश च तस्य कल्याणि कीर्त्यमानं मया शृणु ॥३९॥
पाण्डवस्यार्जुनस्याभूदभिमन्युः किलात्मजः।
चक्रव्यूहभिदा येन नीता कुरुचमू क्षयम् ॥४०॥
तस्मात्परीक्षिदभवद्राजा भरतवंशभृत्।
सर्पसत्रप्रणेताभूत्ततोऽपि जनमेजयः ॥४१॥
ततोऽभवच्छतानीकः कौशाम्बीमप्युवास सः।
यश्च देवासुररणे दैत्यान्हत्वा व्यपद्यत ॥४२॥
तस्माद्राजा जगद्धाता सहस्रानीक इत्यभूत्।
यः पात्रेणेवितरमो दिवि चक्रे गतागतम् ॥४३॥
तस्य देव्यां मृगावत्यामसाबुदयनोऽजनि।
भूषणं धतिनो वंशे जगन्नेत्रोत्सवो नृपः ॥४४॥