सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 741, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 741

१८६ कथासरित्सागर
एषापि रूपरुचा तं श्रुत्वा सोमप्रमामुखात् ।
स्वयंवराय वत्सेशं राजपुत्र्यभिवाञ्छति ॥१५॥
तत्र यावद्विवाहोऽस्या न भवस्तावदन्तरम् ।
कृत्वा कामासहस्यथ रूपं वत्सेश्वरस्य तत् ॥१६॥
गत्वा गान्धर्वविधिना भार्या कुर्याद् भवानिमाम् ।
एवं कलिङ्गसेनासौ तव सत्येति सुन्दरी ॥१७॥
इत्यादिष्टः स राज्ञेन प्रणिपत्याथ तं ययौ ।
गृहं मन्मथवेगः स्वं काञ्चनगिरेस्तटम् ॥१८॥
अत्रान्तरे प्रतिदिनं गच्छन्त्या निजमन्दिरम् ।
प्रतिप्रभातमायान्त्या यन्त्रेण व्योमगामिना ॥१९॥
तया तक्षशिलापुर्यां सा सोमप्रभया सह ।
कलिङ्गसेना क्रीडन्ती तां जगादैकां रहः ॥२०॥
सखि वाच्यं न कस्यापि त्वया यत्ते ब्रवीम्यहम् ।
विवाहो मम सम्प्राप्त इति जाने यत शृणु ॥२१॥
इह मां याचितुं दूता प्रेषिता बहुभिर्नृपैः ।
ते च तातेन सङ्गत्य तथैव प्रेषिता इतः ॥२२॥
यस्तु प्रसनजिन्नाम श्रावस्त्यामस्ति भूपतिः ।
तदीयः केवलं दूतः सादरं तेन सत्कृतः ॥२३॥
मन्निमित्तं चान्बधाय्यैतत्तमन्वे मङ्गलं नृपः ।
स तावस्य वयाम्बायाः कुलीन इति सम्मतः ॥२४॥
स हि तत्र कुले जातो यत्राम्बाम्बालिकात्रिकाः ।
पितामह्याः कुरुणां च पाण्डवानां च जज्ञिरे ॥२५॥
तत्प्रसेनजिते तस्मै सखि दत्तास्मि साम्प्रतम् ।
तातेन राज्ञे श्रावस्त्यां नगर्यामिति निश्चयः ॥२६॥
एतत्कलिङ्गसेनायाः श्रुत्वा सोमप्रभा शुचा ।
मुञ्चन्तीबाष्प हारं सद्यो धारायुपाऽपतत् ॥२७॥
जगाद चैतां पृच्छन्तीं वयस्यामश्रुकारणम् ।
दृष्टनिक्षेपभूलोका सा मयासुरपुत्रिका ॥२८॥
वरो रूपं कुलं शीलं वित्तं चेति वरस्य यत् ।
मुख्यं सखि तदार्थं वयोवर्णादिकं तत ॥२९॥