सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 739, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 739

३८४ कथासरित्सागर

चतुस्त्रिंशस्तरङ्गः
मदनवेगनाम्नो विद्याधरस्य कथा
अथ स्वसद्म यातायाः पदव्यां मार्गमवेक्षितुम् ।
सोमप्रभायाः स्नेहेन मार्गहर्म्याग्रमास्थिताम् ॥१॥
कलिङ्गसेनामारक्तां ददर्श गगनागतः ।
दैवान्मदनवेगाख्यो युवा विद्याधराधिपः ॥२॥
स तां दृष्ट्वैव रूपेण जगत्त्रितयमोहिनीम् ।
क्षोभं जगाम कामेन्द्रजालिकस्येव पिच्छिकाम् ॥३॥
अलं विद्याधरस्त्रीभिः का कथाप्सरसामपि ।
यत्रेदृशमेतस्या मानुष्या रूपमद्भुतम् ॥४॥
तदेषा यदि मे न स्याद् भार्या किं जीवितेन तत् ।
कथं च मानुषीसङ्गं कुर्यां विद्याधरोऽपि सन् ॥५॥
इत्यालोच्य स दध्यौ च विद्यां प्रज्ञप्तिसञ्ज्ञिकाम् ।
सा चाविर्भूय साकारा तमेवमवदत्तदा ॥६॥
तत्त्वतो मानुषी नैवैषा शापच्युताप्सराः ।
जाता कलिङ्गदत्तस्य गृहे सुभग ! भूपतेः ॥७॥
इत्युक्ते विद्यया सोऽथ हृष्टो गत्वा स्वधामनि ।
विद्याधरोऽन्यविमुखः कामार्तः समचिन्तयत् ॥८॥
हठाद्यदि हराम्‍येतां तदेतन्मे न युज्यते ।
स्त्रीणां हठोपभोगे हि मम शापोऽस्ति मृत्युदः ॥९॥
तदेतत्प्राप्तये शम्भुराराध्यस्तपसा मया ।
तपोऽधीनानि हि श्रेयांस्युपायोऽन्यो न विद्यते ॥१०॥
इति निश्चित्य चान्येद्युर्गत्वा ऋष्यमपर्वतम् ।
एकपादस्थितस्तप्ते निराहारस्तपांसि सः ॥११॥
अथ तुष्टोऽचिरात्तीव्रैस्तपोभिर्वत्सदर्शनः ।
एवं मदनवेगं तमादिदेशाम्बिकापतिः ॥१२॥
एषा कलिङ्गसेनाख्या ख्याता रूपेण भूतले ।
कन्या नास्याश्च भर्त्तापि सदृशो रूपसम्पदा ॥१३॥
एकस्तु वत्सराजोऽस्ति स चैतामभिवाञ्छति ।
किं तु बान्धववशाया भीत्या प्रार्थयते स्फुटम् ॥१४॥