सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 717, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 717

१६४ कथासरित्सागर
सखि भुक्तैः फलैरेतैर्जरा ते न भविष्यति ।
हिमात्ययस्य रूपस्य पद्मस्येव हिमाहृतिः ॥५५॥
एतदर्थमिह स्नेहादानीता भवती मया ।
इति सोमप्रभा चैतां राजपुत्रीमभाषत ॥५६॥
ततः कलिङ्गसेनात्र तान्यभुङ्क्त फलानि सा ।
सद्योऽमृतरसासार सिक्ताङ्गीव बभूव च ॥५७॥
ददर्श च पुरोद्यानं भ्रमन्ती तत्र कौतुकात् ।
ससुवर्णाब्जवापीकं सुधास्वादुफलद्रुमम् ॥५८॥
हेमचित्रलगाकीर्णं समणिस्तम्भविक्रमम् ।
भित्तिबुद्धिकरं शून्ये भित्तौ शून्यप्रतीतितम् ॥५९॥
जले स्थलधियं कुर्वत्स्थले च जलसङ्किकृत् ।
लोकान्तरमिवापूर्वं मयमायाविनिर्मितम् ॥६०॥
प्रविष्टपूर्वं प्लवगैः पुरा सीतागवेषिभिः ।
स्वयम्प्रभाप्रसादेन चिरात्सम्प्राप्तनिर्गमैः ॥६१॥
ततस्तदद्भुतपुरप्रकामालोकविस्मिताम् ।
मजरामाजनीभूतां तामापृच्छ्य स्वयम्प्रभाम् ॥६२॥
कलिङ्गसेनामारोप्य यन्त्रे भूयो विहायसा ।
सोमप्रभा तक्षशिलामानिनाय स्वमन्दिरम् ॥६३॥
तत्र सा तद्यथावस्तु पित्रोः सर्वमवर्णयत् ।
कलिङ्गसेना सा चापि परं सन्तोषमीयतुः ॥६४॥
इत्थं तयोर्द्वयोः सख्योर्गच्छत्सु दिवसेष्वथ ।
ऊचे कलिङ्गसेनां तामेव सोमप्रभैकदा ॥६५॥
यावन्न परिणीता त्वं तावत्सख्यं मम त्वया ।
श्वशूभर्तृभवने पश्चान्मम स्याद्वागमः कुतः ॥६६॥
न दृश्यो हि सखीभर्त्ता नाङ्गीकार्यः कश्चन्धनः ।
श्ववेर्वृकीव स्नुषायाः श्वश्रूर्मांसानि खादति ॥६७॥
तथा च शृणु वक्ष्यैतां कीर्तिसेनाकथां तव ।
— ॥६८॥
१ मुद्रपुस्तके त्रुटितोऽत्र पाठः ।