सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 71, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 71

१८ कथासरित्सागर
वरं हि मृत्युर्नाकीर्तिस्त्वत्सखीहृदयं तव।
गुरुर्भियादि बुध्येत तत्कदाचिच्छिवं भवेत् ॥१५॥
तदतत्कुरु भद्रे ! त्वं तां सखीं मां च जीवय।
तच्छ्रुत्वा सा गता सख्या मातुः सर्वं न्यवेदयत् ॥१६॥
तया तत्कथितं भर्तुरुपवर्षस्य तत्क्षणम्।
यज्ञे भ्रातुश्च वर्षस्य तेन तच्चाभिनन्दितम् ॥१७॥
विवाहं निश्चितं गत्वा व्याडिरानयति स्म ताम्।
वर्षात्तानिनिवेशनं सोपाम्ब्या जननीं मम ॥१८॥
अथोपकोशा विधिवत्पित्रा मे प्रतिपादिता।
तया मात्रा गृहिण्या च समं तत्रावसं सुखम् ॥१९॥
अथ कालेन वर्षस्य शिष्यवर्गो महानभूत्।
तत्रैकः पाणिनिर्नाम' जडबुद्धितरोऽभवत् ॥२०॥
स शुश्रूषापरिक्लिष्टः प्रेषितो वर्षभार्यया।
अगच्छत्तपसे खिन्नो विद्याकामो हिमालयम् ॥२१॥
तत्र तीव्रेण तपसा तोषितादिन्दुशेखरात्।
सर्वविद्यामुखं तेन प्राप्तं व्याकरणं नवम् ॥२२॥
ततश्चागत्य मामत्र वादायाह्वयते स्म सः।
प्रवृत्ते चावयोर्वादे प्रयाताः सप्त वासराः ॥२३॥
अष्टमेऽह्नि मया तस्मिञ्जिते तत्समनन्तरम्।
नभस्थेन महाघोरो हुङ्कारः शम्भुना कृतः ॥२४॥
तेन प्रणष्टमस्मद् ... तस्मद्व्याकरणं भुवि।
जिताः पाणिनिना सर्वे मूर्खीभूता वयं पुनः ॥२५॥
अथ सञ्जातनिर्वेदः स्वगृहस्थितये धनम्।
हस्ते हिरण्यगुप्तस्य विधाय वणिजो निजम् ॥२६॥
उक्त्या सर्वोपरोगाय गन्तवानस्मि शङ्करम्।
तपोभिराराधयितुं निराहारो हिमालयम् ॥२७॥
१ अत्रामान्त्रितमपडेवेकवर्षम् । २यदविवरणं परिशिष्टे विहारीकृतम् ।