सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 709, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 709

१५४ कथासरित्सागर

एको न रोपितो यावदुत्पन्नोऽस्य व्रणोऽपर।
सत्यं प्रवादो यच्छिद्रेष्वनर्था यान्ति भूरिताम् ॥१८१॥
प्रभवन्ति यतो लोकाः प्रलयं यान्ति येन च।
ससार वर्त्म विवृतं कः पिधातुं तदीश्वरः ॥१८२॥
इत्यालोच्य विरुद्धाथेसिद्धया मन्त्रनश्वयुया।
स पिशाचस्ततो मूर्खं पलाय्यावर्शनं ययौ ॥१८३॥
एवं च बद्धमित्वा तं पिशाचं मोषितस्तया।
दुहित्रा स द्विजस्तस्मै रोगोत्तीर्णो यथासुखम् ॥१८४॥
इत्य पिशाचास्तत्तुत्या बाला राजसुताश्च ये।
ते सिद्धा अप्यनर्थाय सखि रक्ष्यास्तु बुद्धिभि ॥१८५॥
राजपुत्र्यः कुलीनास्तु नैतादृश्यः श्रुता क्वचित्।
अतोऽन्यथा न भव्यं ते सखि मत्संगतं प्रति ॥१८६॥
एवं कलिङ्गसेनाया मुखाच्छ्रुत्वा यथाक्रमम्।
सहासाचित्रमधुर सोर्प सोमप्रभा ययौ ॥१८७॥
इतो मे षष्टियोजन्यां गृहं याति च वासरः।
चिरं स्थितास्मि सतन्वि यामीत्यैतामुवाच च ॥१८८॥
गतोऽस्तगिरिशेखरं व्रजति वासरोशे धर्न
सखीं पुनरुपागमत्क्षणमिनी समापृच्छ्य ताम्।
क्षण अनितविस्मया गगनमार्गमुत्पत्य सा
जगाम वसतिं निजां प्रसभमत्र सोमप्रभा ॥१८९॥
विलोक्य च तदद्भुतं बहुवितर्कमत्यद्भुतम्
प्रविद्य समचिन्तयत् किम कलिङ्गसेना च सा।
न वेद्मि किमसावहो मम सखी हि सिद्धाङ्गना
भवत्यथवाप्सराः किमथवापि विद्याधरी ॥१९०॥
दिव्या तावदियं मवरयवितथं व्योमाप्रमच्छासिणी
दिव्या यान्ति च मानुषीभिरसमस्नेहानुसा सङ्गतिम्।
भेजे किं नृपते पृथोस्तनयया सख्यं न सारून्धती
तत्क्षीरण्या पृथुरानिगाय सुरभि स्वर्गाप्र किं भूतले ॥१९१॥
तत्क्षीरपानतो न किं पुनरसौ भ्रष्टोऽपि यातो दिवं
सम्भूताश्च तत प्रभृत्यविवणा गायो न किं भूतले।
तद्भाग्यास्मि शुभोदयादुपगता दिव्या मतीयं मम
प्रातः स्वान्वयनामनी मुनिपुणं प्रक्ष्यामि तामागताम् ॥१९२॥