सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 707, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 707

३५२ कथासरित्सागर
एवं कुरु सदा यावत् पिशाचो व्यक्ततां गतः ।
अह हि हन्मि ते व्याधिमिति त्वा वक्ष्यति स्वयम् ॥१६७॥
ततोऽभिनन्देस्तं साध्यं तव रोगं हरिष्यति ।
इत्युक्तस्तेन मित्रेण स द्विजस्तत्तथाकरोत् ॥१६८॥
ततः सिद्धं पिशाचं स तस्यार्तस्य महौषधीः ।
हिमाचलेन्द्रादानीय रोपयामास तं व्रणम् ॥१६९॥
जगाद च प्रहृष्टं तं सोऽथ रुग्णग्रहो द्विजम् ।
देहि व्रणं द्वितीयं मे यावत् रोपयाम्यहम् ॥१७०॥
न चेदुत्सृजाम्यन्यं ते शरीरं संहरामि वा ।
तच्छ्रुत्वा स द्विजो भीतः सद्यो मुक्त्यर्थं तमभ्यधात् ॥१७१॥
व्रणं द्वितीयं दास्यामि सप्तभिस्ते दिनैरिति ।
ततस्तेनोज्झितः सोऽभून्निराशो जीविते द्विजः ॥१७२॥
इत्युक्त्वा विरता मध्यादशखीलाख्यानसञ्ज्ञया ।
कलिङ्गसेना भूयः सावादीत्सोमप्रभामित्थम् ॥ १७ ॥
ततो व्रणान्तराभावादार्तं विप्रमुवाच तम् ।
दृष्ट्वा पृष्ट्वा च दुहिता विवन्धा मृतभर्तृका ॥१७४॥
वञ्चयेदहं पिशाचं तं गच्छ त्वं ब्रूहि तं पुनः ।
नाडीव्रणो मद्धुहितुर्भर्वतारोप्यतामिति ॥१७५॥
तच्छ्रुत्वा मुदितो गत्वा तथैवोक्त्वा च स द्विजः ।
अनेषीद्दुहितुस्तस्याः पिशाचं तं ततोऽन्तिकम् ॥१७६॥
सा च तस्य पिशाचस्य वराङ्गं स्वमदर्शयत् ।
रोपयेमं व्रणं भद्र ममेति ब्रुवती रहः ॥१७७॥
स च मूढः पिशाचोऽस्या वराङ्गे सततं ददौ ।
पिण्डीलेपादि न स्वासीत्स तं रोपयितुं क्षमः ॥१७८॥
त्रिदिनं विश्रस्तस्याः स कृत्वा जङ्घे निरामयां ।
किस्विन्न गह्वरीयं मे तद्वराङ्गं व्यलोकयत् ॥१७९॥
यावद्द्वितीयं तस्याथ स पायुव्रणमैक्षत ।
तं दृष्ट्वैव च सम्भ्रान्तः स पिशाचो व्यचिन्तयत् ॥१८०॥