कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 695, कुल 876 में से
संदर्भ में पढ़ें६४ कथासरित्सागर
वरण्यायैष घोपेरय नयनात्पलमालिकाम् ।
क्षिपन्ती तस्य वपुषि प्रणाममकरोन्मुने ॥७९॥
पति समाप्नुहीत्याशीस्तस्मास्तेनाम्यधीयत ।
सुरासुरखुल्लद्धभ्यं मथाज्ञावद्यात्मना ॥८०॥
ततोऽसामान्यतद्रूपलोभलुण्ठितलज्जया ।
तयाप्यूचे स विनमद्वक्त्रया मुनिपुङ्गवः ॥८१॥
एषा यदिच्छा भवतो नर्मालापो न चेदयम् ।
तद्देव दाता नृपतिः पिता मे याच्यतामिति ॥८२॥
यथाम्बयं परिजनान्मुनिस्तस्या निशम्य सः।
गत्वा नृपं तत्पितरं सुपर्णं तामयाचत ॥८३॥
सोऽपि तं वीक्ष्य तपसा वपुषा चातिभभिगम् ।
उवाच रचितातिथ्यो राजा मुनिकुमारकम् ॥८४॥
जाताप्सरसि रम्भायां कन्येषा भगवन्मम ।
अस्या विवाहाभावे मे तया भावी समागमः ॥८५॥
एव तया व्रजन्त्या द्यां रम्भयैव ममोदितम् ।
एतत्कथं महाभाग भवेदिति निरूप्यताम् ॥८६॥
सच्छ्रुत्वा मुनिपुत्रोऽसौ क्षणमेवमचिन्तयत् ।
किं पुरा मेनकोद्भूता सर्पदष्टा प्रमद्वरा ॥८७॥
दत्त्वायुषोऽर्धं मुनिना न भार्या रुरुणा कृता ।
त्रिशङ्कुः किं न नीतो द्यां विश्वामित्रेण लुब्धयप ॥८८॥
तद्दिवं स्वतपोमागभ्यात् किं न करोम्यहम् ।
इत्यान्लोच्य न भारोऽयमित्युक्त्वा सोऽब्रवीन्मुनिः ॥८९॥
हे देवतातपोर्द्धेन मदीनेन भूपतिः ।
सशरीरो दिवं यातु रम्भाम्भोगसिद्धये ॥९०॥
इत्युक्ते तेन मुनिना शृण्वन्त्यां राजसंसदि ।
एवमस्त्विति भव्यस्था दिव्या वागदमलत् ॥९१॥
तत्र सन्तोषतो हर्म्यं मनये कादयपाय ताम् ।
वत्साय दत्वा तनयां स राजा दिवमुद्ययौ ॥९२॥
तत्र दिव्यत्वमासाद्य तया शत्रनिपुन्तया ।
स रेमे रम्भया सार्द्धं भूयो दिव्याशुभावया ॥९३॥