कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 693, कुल 876 में से
संदर्भ में पढ़ें१२८ कथासरित्सागर
चिक्रीड च चिरं सोऽत्र साकमप्सरसा तया।
दिवं सापि न सस्मार रम्यं प्रेम न जन्मभूः ॥६४॥
तत्सखीयक्षिणीवृष्टेरुपरी स्वर्णराशिभिः।
सास्यभूमिर्नरेन्द्रस्य धौतैश्शिखरैरिव ॥६५॥
कालेन चास्य राज्ञ सा सुवेगस्य वराप्सराः।
असूतानन्यसदृशीं धृतगर्भा सती सुताम् ॥६६॥
प्रसूतमात्रैव च सा जगादेनं महीपतिम्।
राजञ्शापोऽयमीवृद्धमे क्षीणो जात' स चाधुना ॥६७॥
अहं हि रम्भा नाकस्त्री त्वयि दृष्टेऽनुरागिणी।
जाते च गर्भे मुक्त्वा तं गच्छामस्तत्क्षणं वयम् ॥६८॥
समयो हीदृशोऽस्माकं तद्रक्षे कन्यकामिमाम्।
एतद्विवाहाज्ञाके नो भूयो भावी समागमः ॥६९॥
एवमुक्त्वाप्सरा रम्भा विवशा सा तिरोदधे।
तद्दुःखान्न च स राजाभूत्तदा प्राणव्ययोद्यतः ॥७०॥
निरास्थेनापि किं त्यक्तं विश्वामित्रेण जीवितम्।
मेनकायां प्रयातायां प्रसूयैव शकुन्तलाम् ॥७१॥
इत्यादि सचिवैरुक्तो ज्ञातार्थः स नृपो धृतिम्।
शनैरादत्त कन्यां च पुनस्सङ्गमकारणम् ॥७२॥
तां च बालां सवेगाग्र पिता सर्वाङ्गसुन्दरीम्।
सोऽतिलोचनसौन्दर्यान्नाम्ना चक्रे सुलोचनाम् ॥७३॥
कालेन यौवनप्राप्तामुद्यानस्थां ददर्श ताम्।
युवा यदृच्छया भ्राम्यन्वत्सस्य काश्यपो मुनिः ॥७४॥
स तपोराशिरूपोऽपि दृष्ट्वैवैतां नृपात्मजाम्।
अनुरागरसोऽभूदिति धाम व्यचिन्तयत् ॥७५॥
अहो रूपं किमप्यस्याः कन्यायाः परमाद्भुतम्।
नेमां प्राप्नोति चेद् भार्या किमन्यत्तपसः फलम् ॥७६॥
इति ध्यायन् मुन्युवा स सुलोचनया तया।
अददर्शि प्रज्वलत्तेजा विधूम इव पावकः ॥७७॥
तं वीक्ष्य सापि सप्रेमा साक्षसूत्रकमण्डलुम्।
शान्तश्च कमनीयश्च कोऽयं स्यादित्यचिन्तयत् ॥७८॥