सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 685, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 685

५३ कथासरित्सागर
अर्थप्रदानमेवाहुः संसारे सुमहत्तपः ।
अर्थदाः प्राणदाः प्रोक्ताः प्राणा ह्यर्थेषु कीर्तिताः ॥९॥
बुद्धेन च परस्यार्थे करुणाकुलचेतसा ।
आत्मापि तृणवद्दत्तः का वराके घने कथा ॥१०॥
तादृशेन च वीरेण तपसा स गतस्पृहः ।
सम्प्राप्तदिव्यविज्ञानो बुद्धो बुद्धत्वमागतः ॥११॥
आ शरीरभृतः सर्वेष्विष्टेष्वाशानिवर्तनात् ।
प्राज्ञः सत्त्वहितं कुर्यात्सम्यक्सम्बोधिबुद्धये ॥१२॥
सप्तराजकन्यानां कथा
तथा च पूर्वं कस्यापि कृतनाम्नो महीपतेः ।
अजायन्तातिसुभगाः क्रमात्सप्त कुमारिकाः ॥१३॥
बाला एव च तास्त्यक्त्वा वैराग्येण पितुर्गृहम् ।
श्मशानं शिश्रियुः पृष्टा जगदुश्च परिच्छदम् ॥१४॥
असारं विश्वमेवैतन्नमापीदं शरीरकम् ।
तत्राप्यभीष्टसंयोगसुखादि स्वप्नविभ्रमः ॥१५॥
एकं परहितं त्वत्र संसारे सारमुच्यते ।
तदनेनापि देहेन कुर्मः सत्त्वहितं वयम् ॥१६॥
क्षिपामो जीवदेवैतञ्छरीरं पितृकानने ।
क्रव्याद्गणोपभोगाय कान्तेनापि ह्यनेन किम् ॥१७॥
विरक्तराजपुत्रस्य कथा
तथा च राजपुत्रोऽत्र विरक्तः कोऽप्यभूत्पुरा ।
स युवापि सुकान्तोऽपि परिव्रज्यामशिश्रियत् ॥१८॥
स जातु भिक्षुः कस्यापि प्रविष्टो वणिजो गृहम् ।
दृष्टस्तद्भार्यास्तित्वरन्या पश्यन्त्यायतवेक्षणः ॥१९॥
सा तल्लोचनशोभापहृतचित्ता तमब्रवीत् ।
मधमास्तमिमं लक्ष्मीदृशेन त्वया व्रतम् ॥२०॥
सा धन्या स्त्री तपानेन चक्षुषा या निरीक्ष्यसे ।
इत्युक्तः स तया भिक्षुरुद्धृत्याक्षमपाटयत् ॥२१॥