सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 677, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 677

६२२ कथासरित्सागर

तस्य प्रवीरपुत्रेच्छाकृताग्न्याराधनोद्भवः ।
अहमेष महाराज वेदविद्याविदः सुतः ॥१६४॥
तस्मिंश्च भार्यानुगते पितरि स्वर्गते शिशुः ।
अपीतविद्योप्यानाभ्यास्स्वभागं श्यक्तवानहम् ॥१६५॥
प्रवृत्तश्चाभवं द्यूतं शस्त्रविद्याञ्च सेवितुम् ।
कस्य नोच्छृङ्खलं बाल्यं गुरुशासनवर्जितम् ॥१६६॥
तेन क्रमेण चोत्तीर्णे दशवे जातदोर्मदः ।
अटवीमेकदा बाणानहं द्धोप्तुं गतोऽभवम् ॥१६७॥
तावत्सन पथा चैका नगर्या निर्गता वधूः ।
अगात्कर्णीरपारूढा जन्यैर्बहुभिरन्विता ॥१६८॥
अकस्माच्च तदैवात्र करी त्रोटितशृङ्खलः ।
कुतोऽप्यागत्य तामेव वधूमभ्यापतन्मदात् ॥१६९॥
तद्भयेन च सर्वेऽपि त्यक्त्वा तामनुयायिनः ।
तद्भर्त्रापि सह क्लीबाः पलाय्येत्तस्ततो गताः ॥१७०॥
तद्दृष्ट्वा सहसावाहं ससम्भ्रममचिन्तयम् ।
हा कथं कातरैरेभिस्त्यक्तैकेयं तपस्विनी ॥१७१॥
तदहं वारणादस्माद्रक्षाम्यशरणामिमाम् ।
आपन्नत्राणविकलैः किं प्राज्ञैः पौरुषेण वा ॥१७२॥
इत्यहं मुक्तनादस्तं गजेन्द्रं प्रति धावितः ।
गजोऽपि तां स्त्रियं हित्वा स मामेवाभ्यदुद्रुवत् ॥१७३॥
ततोऽहं भीतया नार्या वीक्ष्यमाणस्तया नवन् ।
पलायमानश्च गजं तं दूरमपकृष्टवान् ॥१७४॥
क्रमात्पत्रभरां भग्नां प्राप्य शाखां महातरोः ।
आत्मानं च समाच्छाद्य सङ्क्रमध्यमगामहम् ॥१७५॥
तत्राग्रे स्थापयित्वा तां शाखां तिर्यक्शुरोग्रवात् ।
पलायितोऽहं हस्ती च स तां शाखामचूर्णयत् ॥१७६॥
ततोऽहं योषितस्तस्याः समीपगमनं द्रुतम् ।
शरीरकुशलं चैतामपृच्छमिह भीषिताम् ॥१७७॥
सापि मां वीक्ष्य दुःखार्ता सहर्षा चावदत्तथा ।
किं मे कुशलमेतस्मै दत्ता कापुरुषाय या ॥१७८॥
[L31: ईदृशे सङ्कटे यो मां त्यक्त्वा क्वापि गतः प्रभो ।
एतत्तु कुशलं यत्त्वमक्षतः पुमरीक्षितः ॥१७९॥