सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 675, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 675

६२४ कथारित्सागर
छमे स कतमो भर्त्ता त्वमिदानीं पतिर्मम ।
येनात्मनिरपेक्षेण हृता मृत्युमुखादहम् ॥१८०॥
स चैष दृश्यते भृत्यैः सहागच्छन्पतिर्मम ।
अतः स्वैरं त्वमस्मान् पश्चादागच्छ साम्प्रतम् ॥१८१॥
रूक्ष्येऽन्तरे हि मिलिता यास्यामो यत्र कुत्रचित् ।
एवं तयोक्तस्तदहं तथेति प्रतिपन्नवान् ॥१८२॥
सुरूपाप्यर्पितात्मापि परस्त्रीयं किमेतया ।
इति धैर्यस्य मार्गोऽयं न चाष्टम्यस्य शङ्किनः ॥१८३॥
अनादृत्य च सा भर्त्रा बाष्पा सम्भाषिता सती ।
तेन साक समुत्थेन गन्तुं प्रावर्त्तत क्रमात् ॥१८४॥
अहं च गुप्तवत्तत्पाथेयं परवर्त्मना ।
पश्चादन्वक्षितस्तस्य दूरमध्वानमभ्यगाम् ॥१८५॥
सा च हस्तिमयभ्रष्टमङ्काञ्जनितां रुचम् ।
पथि मिथ्या वदन्ती तं पतिं सर्व्वप्यवर्जयत् ॥१८६॥
कस्य रक्तोन्मुखी गाढरुडान्ताविषकुत्सहा ।
तिष्ठेदनपकृत्य स्त्री भुजगीव विकारिता ॥१८७॥
क्रमाच्च लोहनगरं प्राप्ता स्मस्ते पुरं वयम् ।
वणिज्याजीविनो यत्र भर्तुस्तस्या गृहं स्त्रियाः ॥१८८॥
स्थिताः स्मस्तदहश्चात्र सर्वे वाह्ये सुरालये ।
तत्र सम्मिलितश्चैष द्वितीयो ब्राह्मणः सखा ॥१८९॥
नवेऽपि दर्शनेऽन्योन्यमाश्वासः समभूच्च नौ ।
चित्तं जानाति जन्तूनां प्रेम जन्मान्तरार्जितम् ॥१९०॥
ततो रहस्यमात्मीयं सर्व्वमस्मै मयोदितम् ।
तद्बुद्ध्वैव तदा स्वैरं मामेकशयमब्रवीत् ॥१९१॥
तूष्णीं भवास्त्युपायोऽत्र यत्कृते त्वमिहागतः ।
एतस्या भर्तुर्भगिनी विद्यतेऽत्र वणिक्स्त्रियाः ॥१९२॥
गृहीतार्था मया साकमितः सा गन्तुमुद्यता ।
तत्करिष्ये तदीयेन साहाय्येन तवेप्सितम् ॥१९३॥