सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 673, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 673

६१० कथासरित्सागर
न भ्रांति ते निक्षेप्स्यन्ते तत्सेवाव्यसनेन हि।
गता नृपतयः पूर्वमपि पाण्ड्वादयः क्षयम्॥१४८॥
इत्युक्तोऽमरगुप्तेन मन्त्रिणा स सुमेधसा।
राजा विक्रमसिंहोऽत्र तथेति तदमन्यत॥१४९॥
अन्येद्युरश्वाश्वपादातसारमेयमयीं भुवम्।
विचित्रवागुरोच्छायमयीश्च सकला दिशः॥१५०॥
सहर्षमृगयूथामनिनादमयमम्बरम्।
कुर्वन्स मृगयाहेतोर्नगर्या निर्ययौ नृपः॥१५१॥
निर्गच्छन् गजपृष्ठस्था बाह्ये शून्ये सुरालये।
पुरुषौ द्वावपश्यच्च विजनने सहितस्थितौ॥१५२॥
स्वैरं मन्त्रयमाणौ च मिथः किमपि तावुभौ।
दूरात्स तर्पयन् राजा जगाम मृगयावनम्॥१५३॥
तत्र प्रोत्खातखड्गेषु बुद्धव्याधेषु च व्यभात्।
क्षोभं स सिंहनादेषु भूभागेषु मृगेषु च॥१५४॥
तां स विक्रमबीजाभर्मही संस्तार मौक्तिकैः।
सिंहानां हस्तिहन्तॄणां निहतानां गलच्युतैः॥१५५॥
तिर्यञ्चस्तिर्यगेवास्य पेतुर्वक्रप्लुता मृगाः।
इषुभिर्भिद्य तान्पूर्वं हर्षं प्रापद्वक्रगाः॥१५६॥
कृताखेटश्च सुचिरं राजासौ श्रान्तसैनिकः।
आगच्छन्निविष्टयेन चापेनोज्जयिनीं पुनः॥१५७॥
तस्यां देवकुले तस्मिंस्तावत्कालं तथैव तौ।
स्थितौ ददर्श पुरुषौ निर्गच्छन्त्यौ स दृष्टवान्॥१५८॥
कावेतौ मन्त्रयेते च किंखिदेवमियच्चिरम्।
नूनं चाराविमौ वीर्यरहस्याम्लापसेविनौ॥१५९॥
इत्यालोच्य प्रतीहारं विसृज्यानाययत्त तौ।
पुरुषौ द्वाववष्टभ्य राजा बद्धौ चकार च॥१६०॥
द्वितीयेऽह्नि चास्थानं तावानाय्य स पृष्टवान्।
कौ युवां सुचिरं कश्च मन्त्रस्तावत्स चागिति॥१६१॥
ततस्तयोः स्वयं राज्ञा तत्र पर्य्यनुयुक्तयोः।
याचितोऽभययोरेको युवा वक्तुं प्रचक्रमे॥१६२॥
श्रूयतां वर्णयाम्येतद्यथावदधुना प्रभो!।
अमूत्करभको नाम विप्रोऽस्यामेव च पुरि॥१६३॥