सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 671, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 671

६१८ कथासरित्सागर

किञ्च सत्त्वाधिकं कर्म देवि यन्नाम यादृशम्।
फलाय तद्वत सत्त्वमनुधावन्ति सम्पदः॥१३४॥
तथा च शथयाम्यत्र शृणु चित्रामिमां कथाम्।

राज्ञो विक्रमसिंहस्य हयोर्वाह्यप्रबोध कथा

अस्तीह भुवनख्यातावन्तीपूज्जयिनी पुरी॥१३५॥
राजते सितहर्म्यैर्य्या महाकालनिकासभूः।
सस्सेवारससम्प्राप्तकैलासशिखरैरिव ॥१३६॥
सच्चक्रवर्त्तिपानीयं प्रविशद्वाहिनीशत।
यदामोगोग्धिषगम्भीरः सपक्षक्ष्माभृद्वाधितः ॥१३७॥
तस्यां विक्रमसिंहाख्यो बभूवान्वर्य्याख्यया।
राजा वैरिमुगा यस्य नैवासत्सम्मुखाः क्वचित् ॥१३८॥
स च निष्प्रतिपक्षत्वावनाप्तसमरोत्सवः।
अस्त्रेषु बाहुवीर्ये च सामर्षोऽस्तरतप्यत ॥१३९॥
अथ सोऽमरगुप्तेन तदभिप्रायवेदिना।
कथान्तरे प्रसङ्गेन मन्त्रिणा जगदे नृपः॥१४०॥
देव दोर्दण्डदर्पेण शस्त्रविद्यामदेन च।
आशंसतामपि रिपून् राज्ञां दोषो न दुर्लभः॥१४१॥
तथा च पूर्वं बाणेन युद्धयोग्यमरिं हरः।
दर्पाद् भुजसहस्रस्य तावदाराध्य याचितः ॥१४२॥
यावत्ताप्ततथाभूततद्वरः स मुरारिणा।
दैवेन वैरिणा संख्ये लूनबाहुवनः कृतः ॥१४३॥
तस्मात्कथापि कर्त्तव्यो नासन्तोषो युधं बिना।
कांक्षणीया न चानिष्टो विपक्षोऽपि कदाचन ॥१४४॥
शस्त्रशिक्षा स्ववीर्यं च दर्शनीयं शवेह चेत्।
योग्यभूमावटव्यां तन्मृगयायां च दर्शय ॥१४५॥
राज्ञां चाखेटकमपि व्यायामाविकृते मतम्।
युद्धाध्वनि न शस्यन्ते राजानो ऽकृतश्रमाः ॥१४६॥
मारव्याघ्र मृगा दुष्टा शून्यमिच्छन्ति मेदिनीम्।
तेन ते नृपतेर्वध्या इत्यप्याखेटमिष्यते ॥१४७॥