कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 67, कुल 876 में से
संदर्भ में पढ़ें१४ कथासरित्सागर
पश्यन्त्यास्त नृप तस्या लज्जाकौतुकयोर्हृशि ।
अभूदन्योन्यसमर्दौ रचयन्त्या गतागतम् ॥६६॥
अथालाप इव वृत्ते गान्धर्वाद्विवाहकर्मणि ।
अवर्धत तया प्रीतिर्दम्पत्योर्न तु यामिनी ॥६७॥
आमन्त्राम बभूवुर्त्का तद्गतेनैव चेतसा ।
आययो पश्चिमं भागं तद्वृद्धावेश्म पुत्रकः ॥६८॥
इत्थं प्रतिनिशं तत्र कुर्वाणेऽस्मिन्गतागतम् ।
सम्भोगचिह्नं पाटल्या रक्षिभिर्दृष्टमेकदा ॥६९॥
तैस्तदावेदितं तस्या पितु सोऽपि नियुक्तवान् ।
गूढमन्तःपुरे तत्र निशि नारीमवेक्षितुम् ॥७०॥
तया च तस्य प्राप्तस्य तत्राभिज्ञानसिद्धये ।
पुत्रकस्य प्रसुप्तस्य न्यस्तं वासस्यलक्तकम् ॥७१॥
प्रातस्तया च विज्ञातो राजा चारान्व्यसर्जयत् ।
सोऽभिज्ञानाच्च तै प्राप्त पुत्रको जीर्णवेश्मनि ॥७२॥
आनीतो राजनिट कुपितं वीक्ष्य च नृपम् ।
पादुकाभ्यां समुत्पत्य पाटलीमंदिरेऽविशत् ॥७३॥
विदिता स्वस्तनुत्तिष्ठ गच्छाव पादुकाबलात् ।
इत्यङ्के पाटलीं कृत्वा अगाम नभसा ततः ॥७४॥
अथ गङ्गातटनिकट गगनादवतीर्य स प्रियन्ताम् ।
पात्रप्रभावजाताहारैरनन्दयामास ॥७५॥
आसोक्तित्प्रभाव पाटल्या पुत्रकोऽपिसह ततः ।
यष्ट्या लिखित तत्र स नगर चतुरङ्गवलयुक्तम् ॥७६॥
तत्र स राजा भूत्वा महाप्रभाव च सत्यतां प्राप्ते ।
नमयित्वा त दनृपुर शशास पृथ्वीं समुद्रासाम् ॥७७॥
तदिव दिव्य नगर माययारचित सपौरमत एव ।
नाम्ना पाटलिपुत्र छात्र लक्ष्मीसरस्वत्यो ॥७८॥
इति वर्षमुखादिमामपूर्वां वयमाकर्ण्य कथामतीव चित्राम् ।
चिरमासमभूम बाणभूत विलसद्विस्मयमोदमानचित्ता ॥७९॥
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे प्रथमे कथापीठलम्बके
तृतीयस्तरङ्गः ।