सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 653, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 653

६ कथासरित्सागर
राज्ञः कलिङ्गदत्तस्य कथा
अत्रान्तरे कथासन्धौ यद्वृत्तं तन्निशम्यताम्।
आसीत्तक्षशिला¹ नाम वितस्तापुलिने पुरी ॥११०॥
तदम्भसि बभौ यस्याः प्रतिमा सौधसन्ततेः।
पातालनगरीबाधस्तच्छामालोकनागता ॥१११॥
तस्यां कलिङ्गदत्ताख्यो राजा परमकौगतः²।
अभूत्तारावरस्फीतजिनभक्ताखिलप्रजः³ ॥११२॥
रराज सा पुरी यस्य चैत्यरत्नैर्निरन्तरे।
मत्तुल्या नाम नास्तीति मङ्क्ष्वङ्गैरिबोदिते ॥११३॥
प्रजानां न परं चक्रे यः पितेवानुपालनम्।
यावद्गुरुरिव ज्ञानमपि स्वयमुपादिशत् ॥११४॥
तथा च तस्यां कोऽप्यासीन्नगर्यां सौगतो⁴ वणिक।
धनी वितस्तादत्ताख्यो भिक्षुपूजैकतत्परः ॥११५॥
रत्नदत्ताभिधानश्च तस्याभूत्तनयो युवा।
स च तं पितरं शश्वत्पापं कृत्याजुगुप्सत ॥११६॥
पुत्र निन्दसि कस्मान्मामिति पित्रा च तेन सः।
पृच्छ्यमानो वणिक्पुत्रः सामर्षयूयमभाषत ॥११७॥
तात त्यक्तत्रयीधर्मेस्त्वमधर्मं निषेवसे।
यद् ब्राह्मणान् परित्यज्य श्रमणांश्चाप्सदर्चसि ॥११८॥
स्नानादियन्त्रणाहीना स्वच्छालाधनलोलुपाः।
अपास्तसन्धिस्याशेपकेशकौपीमसुस्थिताः ॥११९॥
विहारास्पदलोभाय सर्वेऽप्यधमजातयः।
यमाधमन्ति धि तेन सौगतेन मयेन ते ॥१२०॥


१ पश्चिमोत्तरसीमाप्रान्ते प्रसिद्धा तक्षशिला नगरी साम्प्रतं पाकिस्तानप्रदेशे वर्तते
Taxila नाम्ना प्रसिद्धा। अस्या विषये परिशिष्टे विस्तरं विवक्षितम्।
२ तक्षशिलायां कदाचित् बौद्धधर्मस्य जैनधर्मस्य च प्रचुरः प्रचार आसीदित्यैति-
हासिकानां मतम् तत् परिशिष्टे द्रष्टव्यम्।
३ जिनधर्मानुयायीत्यर्थः,
४ त्रयी-वेदत्रयी तत्प्रतिपादितो वैदिकधर्मः।