सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 65, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 65

३२ कथासरित्सागर
एवमस्त्विति तौ मूढौ धावितौ सोऽपि पादुके ।
अध्यास्योत्पपतद् व्योम गृहीत्वा यष्टिभाजने ॥५२॥
अथ दूरं क्षणाद् गत्वा ददर्श नगरीं शुभाम् ।
अकणिकाख्यां तस्यां च नभसोऽवततार सः ॥५३॥
वञ्चनप्रवणा वेश्या द्विजा मत्सिरो यथा ।
वणिजो धनलुब्धाश्च कस्य गेहे वसाम्यहम् ॥५४॥
इति सञ्चिन्तयन्नाप स राजा विजनं गृहम् ।
जीर्णं तदन्तरे चैकां वृद्धां योषितमैक्षत ॥५५॥
प्रदानपूर्वं सन्तोष्य यां वृद्धामावृत्तस्तथा ।
उवासासन्शितस्तत्र पुत्रक शीलसन्धनि ॥५६॥
कदाचित्साच सम्प्रीता वृद्धा पुत्रकमब्रवीत् ।
चिन्ता मे पुत्र ! यद्भार्या नानुरूपा तव क्वचित् ॥५७॥
इह राज्ञस्तु तनया पाटलीत्यस्ति कन्यका ।
उपयन्तःपुरे सा च रत्नमित्यभिरक्ष्यते ॥५८॥
एतद्वृद्धावचस्तस्य दत्तकर्णस्य शृण्वतः ।
विवेश तेनव पथा हृन्मदन्धो हृदि स्मरः ॥५९॥
द्रष्टव्या सा मयाद्यैव कान्तेति कृतनिश्चयः ।
निशीथे नभसा तत्र पादुकाभ्यां जगाम सः ॥६०॥
प्रविश्य सोऽत्रि शृङ्गाग्र-शुङ्ग-वातायनेन ताम् ।
अन्तःपुरे ददर्शाथ सुप्तां रहसि पाटलीम् ॥६१॥
सेव्यमानामविरतं चन्द्रकान्त्याङ्गरुक्नया ।
जित्वा जगद्वि धास्तां मूर्ता शक्ति मनोभुवः ॥६२॥
कथं प्रबोधयाम्येतामिति यावद्व्यचिन्तयत् ।
इत्यकस्माद् बहिस्तावद्यामिकः पुरुषो जगौ ॥६३॥
आलिङ्ग्य मधुकरहुतिमलमामियदीक्षण रहः कान्ताम् ।
यद्बोधयन्ति सुप्तां जन्मनि यूनां तदेव फलम् ॥६४॥
श्रुत्ववत्तदुपादपातम् दुरम्वम्यविक्यवे ।
मलिंग्निह गता कान्तो प्राबुध्यत ततश्च सा ॥६५॥