सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 647, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 647

५९४ कथासरित्सागर
स्वस्वनियोगव्यापृतपरिजनवनिनामिनन्दितागमम् ।
वासगृहान्तं प्राप्तश्चन्द्रप्रभया तया जगदे ॥२७४॥
या तत्र कनकरेखा राजसुता सुभग ! वर्धमानपुरे ।
दृष्टा भवता सायं भगिनी मे चन्द्ररेखेति ॥२७५॥
या दाधाधिपपुत्री विन्दुमती प्रथममुत्सङ्गरद्वीपे ।
परिणीताभूद्भवता शशिरेखा मत्सखी सेयम् ॥२७६॥
या तदनु बिन्दुरेखा राजसुता तत्र दानवानीता ।
शक्तिदेवस्य विद्याधरीभिः सह विवाहः
भार्या च ते तदामूच्छशिखाप्रभा सेयमनुजा मे ॥२७७॥
तदिदानीमेहि वृतिभस्मत्पितुरन्तिकं सहास्माभिः ।
तेन प्रदत्ताश्चैता द्रुतमखिलाः परिणयस्वास्मान् ॥२७८॥
इति कुसुमशराज्ञासप्रगल्भं च तस्यां
त्वरितमुदितवत्यामत्र चन्द्रप्रभायाम् ।
अपि चतसृभिरामैः साकमेतत्पितुस्त-
न्तिकमनुजनन्तं शक्तिदेवो जगाम ॥२७९॥
स च चरणनताभिस्ताभिरभ्यथितोऽसौ
दुहितृभिरखिलाभिर्दिव्यवाक्प्रेरितश्च ।
युगपदथ ददौ ताः शक्तिदेवाय तस्मै
मुदितमविरलोपास्तत्र विद्याधरेन्द्रः ॥२८०॥
तदनु कनकपुर्यामृद्धमस्यां स्वराज्यं
सपदि स विततार ख्याञ्च विद्याः समस्ताः ।
अपि च कृतिनमेनं शक्तिवर्म स्वनाम्ना
व्यधित समुचितेन स्वेषु विद्याधरेषु ॥२८१॥
धन्यो न जेष्यति भवत्प्रभृतिप्रभावाद्
वत्सेश्वरात् पुनरुदेष्यति चक्रवर्ती ।
युष्मासु योऽत्र नरवाहनदत्तनामा
भावी विभुः स तव तस्य मतिं विदध्याः ॥२८२॥
इत्युपिबादन विससर्ज महाप्रभावो
विद्याधराधिपतिरारमतपोबनात्तम् ।
सत्वरय मप्रियतमं निजराजधानीं
जामातरं स शशिखण्डपशभिधानः ॥२८३॥