सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 641, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 641

यहाँ पृष्ठ का संपूर्ण पाठ प्रस्तुत है:

५९२ कथासरित्सागर
इति दिव्यां गिरं श्रुत्वा पाटितोदरमाशु स।
गर्भं तस्या समाकृष्य पाणिना पृष्ठतोऽग्रहीत् ॥२६०॥
गृहीतमात्रो जज्ञे च स खड्गस्तस्य हस्तगः।
आकृष्टः सत्वतः सिद्धेः केशपाश इवायतः ॥२६१॥
ततो विद्याधरः क्षिप्रात्स विप्रः समजायत।
बिन्दुरेखा च तत्काळमदर्शनमियाय सा॥२६२॥
तद्दृष्ट्वा च स गत्वैव दाशपुत्र्यै न्यवेदयत्।
बिन्दुमत्यै द्वितीयायै पत्न्यै सर्वं तथाविधः ॥२६३॥
सा समाह वयं नाथ ! विद्याधरपतेः सुताः।
तिस्रो भगिन्यः कनकपुरीत' शापतश्च्युता॥२६४॥
एका कनकरेखा सा वर्धमानपुरे त्वया।
यस्या दृष्टः स शापान्तः सा च तां स्वां पुरीं गता ॥२६५॥
शापान्तो हीदृशस्तस्या विचित्रो विधियोगतः।
अहमेव तृतीया च शापान्तस्त्वत्कृतेनैव मे॥२६६॥
मया चाद्यैव गन्तव्या नगरी सा निजा प्रिया।
विद्याधरशरीराणि तत्रैवास्माकमासते ॥२६७॥
चन्द्रप्रभा च भगिनी ज्यायसी हि स्थिताऽत्र न।
तदायाहि त्वमप्याशु खड्गसिद्धिप्रभावतः ॥२६८॥
तत्र ह्यस्मांश्चतस्रोऽपि भार्याः सम्प्राप्य चाधिकाः।
वनस्थेनार्पिताः पित्रा पुरि राज्यं करिष्यसि ॥२६९॥
इति निजपरमार्थमुक्तवत्या सममनया पुनरेव बिन्दुमत्या।
अथ कनकपुरीं स शक्तिदेवो गगनपथेन' तथेति तां जगाम ॥ २७० ॥
तस्यां च यानि योषिद्वपूंषि पर्यङ्कतल्यवर्त्तीनि।
निर्जीवितान्यपश्यत्पूर्वं त्रिषु मण्डपेषु दिव्यानि ॥२७१॥
तानि यथावत् स्वात्मभिरनुप्रविष्टा स कनकरेखाद्या।
प्राप्तो भूयः प्रणता मन्नाशीता निजप्रियास्तिस्र ॥२७२॥
तां च चतुर्थीमैक्षत तज्ज्येष्ठां रचितमङ्गलां तत्र।
चन्द्रप्रभां पिबन्तीं चिरदर्शोत्कण्ठा दृष्ट्या ॥२७३॥


१ खड्गसिद्धेरवात्तस्य विद्याधरत्वं खेचरत्वञ्च सम्प्राप्तम्।