सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 639, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 639

५८८ कथासरित्सागर
कथं सर्वं त्वया भुक्तमिति भ्रात्रास्य जल्पतः।
जिह्वां¹ विद्याधरो भूत्वा जाल्पादः समुद्ययौ ॥२३३॥
व्योमश्यामखनिस्त्रिंशे² हारकेयूरराजिते।
तस्मिन्नुत्पतिते सोऽथ देवदत्तो व्यचिन्तयत् ॥२३४॥
कष्टं कीदृगनेनाहं वञ्चितः पापबुद्धिना।
यदि वात्यन्तमुग्धता न कस्य परिभूतये ॥२३५॥
तदेतस्यापकारस्य कथमद्य प्रतिक्रियाम्।
कुर्यां विद्याधरीभूतमध्येनं प्राप्नुयां कथम् ॥२३६॥
तन्नास्त्युपायो बेतालसाधनादपरोऽत्र मे।
इति निश्चित्य स ययौ रात्रौ पितृवनं ततः ॥२३७॥
तत्राहूय तरोर्मूले बेतालं नक्तंचरे।
पूजयित्वाऽकरोत्तस्य नृमांसबलिस्तर्पणम् ॥२३८॥
अतृप्यन्तं च बेतालं तमन्यानयनासहम्।
तर्पयिष्यन् स्वमांसानि च्छेत्तुमारभते स्म सः ॥२३९॥
तत्क्षणं च स बेतालो महासत्त्वमभाषत।
सत्त्वेनानेन तुष्टोऽस्मि तव मा साहसं कृथाः ॥२४०॥
तद् भद्र किमभिप्रेतं तब यत्साधयामि ते।
इत्युक्तवन्तं बेतालं स वीरः प्रत्युवाच तम् ॥२४१॥
विश्वस्तवञ्चको यत्र जाल्पादो धर्ती स्थितः।
विद्याधरनिवासं तं नय तन्निग्रहाय माम् ॥२४२॥
तथेत्युक्तवता तेन बेतालेन स तत्क्षणात्।
स्कन्धेऽधिरोप्य नभसा निन्ये वैद्याधरं पदम्³ ॥२४३॥
तत्रापश्यच्च तं जाल्पादं प्रासादवर्तिनम्।
स विद्याधरराजत्वदृप्तं रत्नवासनस्थितम् ॥२४४॥
प्रतारयन्त तामेव सत्यविद्यापरीपदाम्।
विद्युत्प्रभामनिच्छन्ती भार्यात्वे तत्प्रवृत्तिभिः ॥२४५॥


१ त्रुटितः।
२ आराद्भावत् श्यामन्तः निस्त्रिंशः खड्गोयस्य सः। खड्गस्य श्यामो वर्णः कविसमय-प्रसिद्ध
३ दमप्रान्तम्।
४ श्यामम्।